________________
१६६
स्वार्थप्रकाश
एवं "जानीहि नाथ दोनोऽस्मि" इत्यादौ दीनभिन्नमत्तू कभवनविषय के आशंसाविषयत्वत्कतु 'कज्ञाने; अथवा भवनकर्तृत्वान्वित दीनाभिन्नमद्विषयकस्याशं साविषयज्ञानस्यकर्तृत्वान्विते त्वं पदार्थे, नाथप्रकारकज्ञानेच्छाप्रकारस्य सम्बुद्धिप्रथमान्तार्थस्यान्वय: ; नाथस्य मदीयदीनभाव विषयज्ञानविषयकं ज्ञानं जायतामितीच्छासम्भवात् । इच्छा विषयवस्य ज्ञानविषयकज्ञानवृत्तित्वपर्यन्तधावनं, मदीयदीनभावविषयज्ञानस्यापेक्षात्मकत्वार्थम् उपेक्षाज्ञानस्यानुव्यवसाय - विषयत्वानियमात् ।
यत्र सम्बोधनपदघटितवाक्यं मुहुः श्रूयते यथा स्तोत्रादी, तत्र ज्ञानान्तरेच्छया सम्बोध्यत्वनिर्वाह: । "अकाण्डशक्तिनिभिन्ने'' इत्यादिपूर्वोदाहृतवाल्मीकि रामायणवाक्यादीएवमेव ज्ञानान्तरेच्छया वक्तुरपि सम्बोध्यत्वनिर्वाहः । एवं "शोचनीयाऽसि वसुधे यात्वं दशरथच्युता । रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता ।। इति पुत्रशोकातुरब्राह्मणस्यराज्ञो रामचन्द्रस्य द्वारमागत्याक्रन्दतो वाक्येऽचेतन वसुधादेः बाधितविषये ऽपीच्छा सम्भवेन ज्ञानेच्छाप्रकारतया संबोध्यत्वयुष्मत्पदप्रतिपाद्यत्वयोनिर्वाहेऽपि कष्टतरगततादात्म्यान्वयबाधात्, वसुधावासिलो के लक्षणा, तत्प्रयोजनन्तु रामवशगत्वरूपवसुधाधर्मस्य लोके प्रतिपत्तिः । एवं सति गृहीतपदसङ्केतकोद्देश्यकतया नास्य वाक्यस्योपहास्यत्वमिति दार्शनिकसरणिः । चेतनतादात्म्यारोपेण वसुधायाः सम्बोध्यत्वं युष्मत्पदप्रतिपाद्यत्वं कष्टतरगततादात्म्यात्वयश्च सम्भवतीति । अत एव तुल्ये प्रस्तुते तुल्यस्याप्रस्तुतस्याभिधान - मित्यप्रस्तुतप्रशंसाऽलङ्कार ईदृशस्थले स्फुरति । पुत्रशोक - सन्तप्तस्य वक्तुर्ब्राह्मणस्य, प्रस्तुतस्य तादात्म्यारोपेण युष्मत्प्रतिपाद्यत्वसम्बोध्यत्वयोर्वसुधायामुपपत्तौ युष्मदर्थे सम्बोधमातार्थे वसुधातादात्म्येनाध्यवसितः प्रस्तुतोऽर्थोऽन्वेति यजनयोपस्थित इति रसविद्याविदां रीतिः । युष्मदेकवच
नादिव्यवस्था पूर्वमुक्तेव । तत्र श्रीस्त्राहीत्यादी सम्बोधनैकवचनस्य सः ( सकारस्य ) श्रयमाणत्वात्, सत्वेनैववाचकत्वं देव ! शुचे! जिष्णो इत्यादी लोपः सम्बोधनविभक्ति स्मारकः इति विचारसरणिः ।
तदिदं सम्बोधनपदं संबोध्यत्वरूपोऽर्थो वा क्रियायां विशेषणमिति पूर्वमुक्तमेव । तत्र महाभाष्यकृता 'ब्रूहिं देवदत्त' इति वाक्यमुक्तम् । तस्यायमाशयः- आमन्त्रपार्थकप्रत्ययान्तपदानां पदात्पराणामेव निघात: ( सर्वाशे -- नानुदात्तत्वम् ) स्वरो विधीयते पाणिनीयनये । स चात्र देवदत्तपवे तदा स्यात्, यदि देवदत्तपदत्र हिपदयोर्व्यपेक्षारूपं सामर्थ्य स्यात् । तद्विरहे हि कस्यापि पदविधेरनुपपतेः 'समर्थ: पदविधि:' इति परिभाषया सर्वस्यापि पदसम्बन्धिनो विधेः सामर्थ्याश्रितत्वप्रतिपादनात् । ब्रूहीति
च देवदत्तस्यासम्बन्धे उभयोः पदयोः परस्परापेक्षत्वरूपव्यपेक्षाविरहेण सामर्थ्याभावान्निघातो न स्यात् समानवाक्य' एव 'निघात युष्मदस्मदादेशानां वार्तिककृता नियमनात् । तस्मान्नामविशेषितं सम्बोध्यत्वं क्रियायां विशेषणम्, त्याद्यन्तविनाकृतं वाक्यमेव नास्तीति 'एकतिङ् वाक्यम्' इति वदता कात्यायनेनानुशिष्टत्वात् । भाष्यानुसारिणस्तु एकतिङ् वाक्यम्' इत्यस्य एकतिङन्ता (त्याद्यन्ता)र्थनिष्ठमुख्यविशेष्यताकं वाक्यमित्यर्थ इत्याहु: तथा हि पश्य मृगो धावति' 'जानीहि जगज्जगन्नाथाज्जायते' 'अस्ति साधवः सीदन्ति ' ' भवति दुर्जना मोदन्ते' इत्याद्यने कत्याद्यन्तमप्येकं वाक्यमिति मन्यन्ते । तत्र मृगकर्ता कधावनस्य धावनकर्तृ-मृगस्य वा कर्मतया दर्शने ( पश्य मृगो धावतीत्यत्र ), जगत्कतु" कजगन्नाथहेतुकजननस्य, जगन्नाथहेतुकजननकतृजगतो वा कर्मतया ज्ञाने ( जानीहि जगजगन्नाथाज्जायत इत्यत्र ), साधुक' कसीदनस्य, सीदनकर्ता साधोर्वा कर्तृ तया सत्तायां ( अस्ति साधवः सीदन्तीत्यत्र ), दुर्जनकर्ता कमोदस्य