________________
१६४
स्वाद्ययंत्रकाशे
अत्रेदं तत्वम्--ज्ञानेच्छा सम्बोधन ( आमन्त्रण ) प्रथमाऽर्थः सा चेच्छा चैत्रस्य मंत्रीयगमनकर्तृत्वज्ञानं भवस्वित्यादिविशेषाकारा सर्वत्र सम्बोधनस्थले | चैत्रादिनामार्थस्य समवेतत्वसंसर्गाविच्छिन्नस्य प्रकारतानिरूपितज्ञानत्वावच्छिन्न विशेष्यत्वावच्छिन्नोद्देश्यताप्रतियोगित्वेन सम्बवेनान्वयः । इच्छा तु स्वोद्देश्यत्वावच्छिन्नज्ञानत्वावच्छिन्नविशेष्यतानिरूपितविषयितासं सर्गावच्छिन्नप्रकारतासम्बन्धेन वाक्यार्थे मैत्रीयगमनकर्तृ त्वादावन्वेति । एवं 'चैत्र मैत्रो गच्छतीत्यादौ चैत्रस्य व्यासङ्गवशाद्वाक्यार्थज्ञानानुत्पादेऽपि न सम्बोध्यत्वहानि:, दर्शितसंसर्गेण चैत्रस्येच्छायाम्, इच्छायाश्चवाक्यार्थेऽन्वयस्य निष्प्रत्यूहत्वात् । उद्देश्यता तु वाक्य प्रयोगप्रयोजकतत्तदिच्छी योद्देश्यतात्वेन संसर्गमध्ये निविशते । एवमाशीः पञ्चम्योस्त्यादिविभक्त्योरर्थस्येच्छाया अप्युद्देश्यता प्रयोक्तृ तत्तदिच्छी योद्देश्यतात्वेन संसर्गमध्ये निविशते । भवतु वा स्वप्रयोक्तृतावच्छेदकत्वोपलक्षितधर्मविशिष्ट प्रयोLeaf सम्बोधनप्रथमाया आशीः पञ्चम्योश्च शक्तिः । तत्र देवदत्तादैः प्रयोक्तुस्तत्तत्कालावच्छिन्नसमवेतत्वेन सम्बन्धे - नेच्छायामन्त्रयः । तेन चैत्रस्य कालान्तरे देवदत्तसम्बोष्यस्य मैत्रीयगमनकर्तृत्वादिस्वरूपवाक्यार्थज्ञाने सिद्धत्वनिश्चयदशायां, पुरुषान्तरस्य तादृशचैत्रीयवाक्यार्थज्ञानेच्छायां यज्ञदत्तं सम्बोधयता देवदत्तेन, करणापाटवेन प्रयुक्ते 'तंत्र ! मंत्रो गच्छतीत्यादौ चैत्रस्य सम्बोध्यत्वविरहादप्रामाण्यम्, कालान्तरीयपुरुषान्तरीयेच्छयोः तद्वाक्याप्रयोजकत्वात्, तयोरिच्छयोः तत्तदिच्छी योद्देश्यता घटित सम्बन्धमध्ये प्रवेशाभावात् । प्रयोगजनकयज्ञदत्तविषयकमम्बोधनेच्छायां तत्तदिच्छोयोद्देश्यत्वघटितेन दर्शितसंसर्गेण चैत्रस्यान्वयासंभवात् । प्रयोक्तुः प्रथमार्थत्वपक्षे देवदत्तसमवेततत्तत्कालिकेच्छायां दशित संसर्गेण चैत्रस्यान्वयासम्भवाच्च ।
एवं प्रयोक्तृपुरुषेणोपलक्षिताया ज्ञानेच्छाया उद्देश्यतथाऽनुपलक्षितायाः तत्तदिच्छीयोद्देश्यतया वाऽवच्छित्रं
यज्ज्ञानत्वावच्छिन्न विशेष्यत्वं तन्निरूपितसमवेतत्वसंसर्गा
प्रकारतावच्छेदकत्वसंसर्गेण ज्ञानेच्छोपलक्षितधर्मविशिष्टे युष्मत्पदस्य शक्तिः । तत्तदिच्छोद्देश्यताव्यक्तेरुद्देश्यतात्वेनैव सम्बन्धमध्ये प्रवेशः । यथा 'स्वर्गकामो यजेत' इत्यादी इष्टसाधनत्वं विध्यर्थः, तत्राव्यवहितपूर्वकाल:, अधिकरणम्, अभावः प्रतियोगितावच्छेदकत्वं धर्मश्च event विध्यर्थः । तत्रेष्टत्वेनोपस्थितः स्वर्गोऽव्यवहितपूर्वकाले, सः ( अव्यवहितपूर्व काल : ) अधिकरणे, तदभावे, स प्रतियोगितया सा अवच्छेदकत्वे, तदभावे, स धर्मेऽन्वेति । तत्र स्वर्गव्यवहितपूर्व कालस्याननुगमेऽपि तत्तत्क्षणावच्छिनाfuकरणतयाऽभावस्य स्वर्गादिकार्याधिकरणेऽन्वयः तेन तत्तत्वणावच्छेदेन स्वर्गाधिकरणवृत्तिर्योऽभावः सत्प्रतियोगितावच्छेदकत्वाभाववान् धर्म इति विष्यर्थबोध: । तत्र यया न स्थानन्त्यं तथात्रापि । यदि चाव्यवहितपूर्वकालो विध्यर्थं न निविशते किंतु- अधिकरणम्, अभाव:, प्रतियोगिता, वच्छेदकत्वं धर्मश्चेति पञ्च विध्यर्याः तत्र स्वर्गोऽधिकरणे, अधिकरणं तत्तत्स्वर्गव्यवहितपूर्वंक्षणाछिन्नाधेयतासम्बन्धे नाभावे, स प्रतियोगितायां, सा अवच्छेदकत्वे, तदभावे, स धर्मेऽन्वेति । एवं यागत्वावच्छेदेन स्वर्गाधिकरणनिष्ठाभाषप्रतियोगितावच्छेदकत्वाभाव वद्धर्मवत्ताज्ञानमेव यागप्रवृत्तौ हेतु:, स धर्मस्तु यागरवमेव दर्शितधर्मत्वेन रूपेण यागत्वा वच्छेदेन गृह्यते ।
-
एवमेवान्यत्रापीष्टसाधनताज्ञानस्य प्रवर्तकत्वं संसर्ग-घटितविशेष सामान्येनावगाहमानमिष्टसाधनताज्ञानं सामान्येन व्यभिचारग्रहः प्रतिरोधुं नेष्टेऽतः स्वर्गत्वा - बच्छेदेन सामान्यतो व्यभिचारग्रहेऽपि न क्षतिः । न चैवं व्यभिचारग्रहेऽपि दण्ड विशेषत्वादिना सामान्यतो स्यात्, घटत्वावच्छेदेन घटकारणताग्रहः व्यभिचारग्रहस्य सामान्यविशेषकारणताग्रहं प्रत्यविरोधि -