________________
प्रथमार्थप्रकाशः
"कृत मनुमतं दृष्टं वायैरिदं गुरुशतकं मनुजपशुभिनिमर्यादेर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां समीमकिरीटिना - मयमहमसृङ्मेदोमांस : करोमि दिशां वलिम् ॥" ( वेणीसंहार नाटकम् ) इत्यादौ तत्र न सम्बोध्यार्थको भवच्छन्दः किं तु शत्रन्तः तेन मनुजपशु भवनविशिष्टेरिति रित्यस्य विशेषणम् । यत्तु नाथ ! पालयेत्यादौ पालनकर्तृत्वस्य सम्बोधनप्रथमान्तार्थ एवान्वय इति तदसत्, गुणीभूते प्रथमान्तार्थे आख्यातार्थान्वयायोगात् । सम्बोधन प्रथमान्तार्थस्य सम्बोध्यत्वे गुणीभूतत्वात् । अन्यथा नारावण इव नरो गच्छतीत्यादौ नारायणेऽपि गमनकर्तृत्वान्वयप्रसङ्गात् । किं च युष्मदोऽसामानाधिकरण्ये मध्यमपुरुषो न स्यात् । न च युष्मत्पर्यायो यः सम्बोधनप्रथमान्त इति मध्यमपुरुषोपपत्तिरिति वाच्यम्, तथा सति भवच्छब्द सामानाधिकरण्योऽपि मध्यमपुरुषप्रसङ्गात् । नन्वेवम् - " अकाण्डशक्तिनिभि वत्से जहति चेतनाम् । हताश राम स्यार्थं दग्धं जीवितमिच्छसि 11 ” (वाल्मीकिरामायणम् ) इत्यादी रामस्य वक्तुः सम्बोध्यत्वमनुपपन्नम् । तदा हि तस्य (शोकाभिभूतत्वेन ) वाक्यार्थज्ञानासत्त्वे वाक्यप्रयोगो. Sनुपपत्र: 1. वाक्यार्थस्य ज्ञानसध्वे तु तस्य सिद्धतया तत्रेछाविरहवाक्यार्थसिद्ध शाब्दबोधो न भवतीति चेन्न, मानान्तरजन्यवाक्यार्थज्ञानसत्वेऽपि • वाक्यार्थं गोचरशाब्दत्वावच्छेदेनेच्छासम्भवात् । श्रवणसिद्धी. मननेच्छावत् सिद्ध ेः शाब्दं प्रत्थप्रतिबन्धकत्वात् । प्रतिबन्धकत्वे वा शाब्देच्छा विरहविशिष्टायास्तस्यास्तथात्वाच्चेति वक्तुरपि स्ववाक्यजन्याभीष्टवाक्यार्थ बुद्धिसमवायितया सम्बोध्यत्वमबाधितमिति सम्प्रदायः
ननु सम्बोध्यपुरुषवृत्तिवाक्यार्थज्ञानस्य सिद्धत्वनिश्चये करणापाटवेन प्रयुक्तस्य 'चैत्र ! त्वं गच्छेति वाक्यस्य प्रामाण्यापत्तिः, भावभूतायाः पुरुषान्तरीयाया इच्छाया
१६३
विषयत्वस्य चैत्रीयवाक्यार्थज्ञानेऽबाधितत्वात् । एवं सम्बोध्यपुरुषवृत्ति वाक्यार्थज्ञानस्य वाक्याजन्यत्वेऽपि अगृहीत - पदसङ्केतं म्लेच्छमुद्दिश्यायें: प्रयुज्यमानस्य वेदादिवाक्यस्थ प्रामाण्यसम्भवाद् उपहास्यत्वाभावप्रसङ्गश्च म्लेच्छे मानान्तरजन्यवाक्यार्थज्ञानस्य म्लेच्छवाक्यार्थज्ञाने चायेंच्छाविषयत्वस्याबाधितत्वात्, म्लेच्छस्य सम्बोध्यत्वोपपत्ती दर्शितवाक्प्रामाण्यस्य निष्प्रत्यूहत्वात् । तत्तत्कालीनत्वेन तत्तत्पुरुषीयत्वेन चेच्छायां तत्तद्वाक्यजन्यत्वेन ज्ञानस्य च सम्बोधनप्रथमार्थत्वे शक्त्यानन्त्यमिति चेन्न ; यतः स्वघटितवाक्यप्रयोगोपधायकत्वोपलक्षितेच्छायां स्वघटितवाक्यजन्यस्वोपलक्षिते ज्ञाने च सम्बोधनप्रथमायाः शक्तिः । यथा तदादिपदानां स्वप्रयोगोपधायक बुद्धिप्रकारत्वो पलक्षितधर्म -- विशिष्टे शक्तिः, शक्तिग्रहस्तु सामान्योपलक्षितविशेषावगाही सर्वोपसंहारेण । तथाहि - तत्पदत्वावान्तरतत्तात्वोष लक्षितास्तत्तत्पदत्वव्यक्तीर्धर्मितावच्छेदकी कृत्य तत्पदप्रयोगोपधायक बुद्धिप्रकारत्वावान्तरतत्तात्योपलक्षितधर्म विशिष्टबोधकल्वावगाही वृत्तिग्रहः । फलतस्तत्पदत्वावच्छेदेन तत्तद्धर्मविशिष्टवाचकतामेवावगाहते । तथा सम्बोधनप्रथमाया अपि प्रथमात्वावान्तरतत्तास्वोपलक्षिततत्तत्प्रथमात्वा वच्छेदेन सम्बीघनप्रथमाप्रयोगोपधायकत्वावान्तरतत्ता त्वोपलक्षितधर्मविशिष्टेच्छावाचकत्वं गृह्यते । इच्छायां तादृशोपलक्षितधर्मस्तद्रयक्तित्वमेव । न च तद्वयक्तित्वेने च्छावगमे वाचकतायामिच्छाप्रवेशो व्यथ इति वाच्यम्, इच्छावृत्तितत्तद्वयक्तित्वलाभार्थमिच्छाप्रवेशात् । अथ वेच्छावृत्तित्दोपलक्षितत्वेनापि धर्मो विवक्षणीय इच्छा वाचकतायां न प्रवेशनीया । एवं स्वटितवाक्यजन्यत्वेनोपलक्षितं ज्ञानमपि दर्शितरीत्या सम्बोधनप्रथमावाच्यमिति यथा तदादिपदानां न शक्त्यानन्यं तथा सम्बोधनप्रथमाया अपीति पदवाक्य रत्नाकरे म० म गोकुलनाथोपाध्याया आहुः ।
--