________________
प्रथमार्थप्रकाशः
इत्यादि भाष्यप्रयोगे ( भावाख्यात प्रयोगोऽयमिति वादिनां मते) कथं बहुवचनोपपत्तिरिति वाच्यम्, तादृशव्यापाराणां पुनः पुनः सम्भवे पुनः पुनर्बुद्धियन्तर विषयतया बहुवचनस्य संभवात् । आस्यन्ते इत्यादावुपवेशन व्यापाराणां मुहुरन्तरो स्थाने त्रिचतुः कृत्वो जातानां बहुत्वेन बहुवचनोपपत्तिः । शय्यन्ते इत्यत्रापि शयनव्यापाराणां मुहुरन्त राजागरणे त्रिचतुः कृत्वो जातानां बहुतया बहुवचनोपपत्तिः । इत्थं चोपवेशनक्रियाविशेषणस्य उष्ट्रासिकाशब्दस्थ, शयनक्रियाविशेषणस्य हतशायिकाशब्दस्य च बहुवचनान्तत्वं बहुत्वविशिष्टव्यापारे बहुत्वान्यसंख्या विशिष्टस्य तादात्म्येनान्वयायोगात्, समानवचनत्वं तन्त्रत्वात् । उष्ट्रासनसदृश उष्ट्रासिकाशब्दार्थः । हतशयनसदृशो हतशायिकाशब्दार्थ इति उष्ट्रासनसदृशानि वर्तमानासनानि, हतशयनसदृशानि वर्तमानशयनानि चेति वाक्यार्थबोध: |
नन्वेवं धात्वर्थे संख्यान्वयोपगमे लिङ्गसंख्यान्वयायोग्यत्वरूपमसत्त्वं तत्र व्याहन्येत । तत्र लिङ्गान्वयायोग्य - त्वस्य घटपटादिनियतलिङ्गनामसाधारणतया संख्यान्वयायोग्यत्वस्यैवासशब्दार्थत्वात् इति चेत् साक्षात्संख्यास्वयायोग्यत्वमसत्त्वमिति स्वीकारे दोषाभावात् । धात्वर्थस्यबुद्धद्वारा संख्यान्वयत्वेऽपि निरुक्तरूपेणासत्त्वमव्याहतमेव । नचैवं वेदाः प्रमाणमित्यादी संख्यायाः प्रमितिकरणे साक्षादन्वयात् असत्त्वं स्यादिति वाच्यम्, प्रमाणानीत्यादी प्रमाणे साक्षात्संख्याम्वयादयोग्यताया विरहात् । अयोग्यतापर्यतनुधावनेन क्वचित् संख्याया अनन्वयेऽपि नासत्वमिति । या नामार्थत्वं सच्वम्, तदभावोऽसत्त्वम्, तच्च धात्वर्थे निराबाधमेवेत्यादिरीत्या बहु प्रपञ्चयन्ति ।
अनन्तरोक्तं तार्किकतं पाणिनीयसूत्रमनुसृत्य प्रवृत्तम् । तच्च सूत्रम् - प्रातिपदिकार्थलिङ्ग परिमाणवचनमात्रे प्रथमा
१६१
( पा० सू० २२३१४६ ) इति । प्रातिपदिकपदं नामपरम् । तत्र लिङ्गस्यापि नामार्थ पञ्चकान्तर्भूतत्वेनैव सग्रहे तस्य पृथगुपादानेन नामतो नियतमुपस्थितस्यैवार्थस्य नामार्थं - त्वमिति नियमलाभे यत्र यस्मार्थस्यानियतोपस्थितिः तस्य प्रतीतये तत्रार्थे प्रथमाविधानमावश्यकमिति तटादिशब्देषु लिङ्गस्य कस्यचन नियतोपस्थित्यभावात्तदर्थमिहलिङ्गग्रहणं कृतम् । एवं द्रोणः खारी आढकमित्यादिपरिमाणबोधकनाम्नां परिमेयपरत्वे तदर्थबोधनाय परिमाणग्रहणमप्यावश्यकम् । एकः द्वौ इत्यादिसंख्यावाचकपदेषु एकत्वादीनामभिहितत्वात्तदर्थे विभक्तेरप्राप्तया तदर्थं वचन ग्रहणमिति सर्वेषां सार्थकत्वमुपपादयन्ति । किन्तु महाभाष्यकयटादिग्रन्थपर्यालोचनयैतदवसीयते यत्- तटादिपदेऽपि यत्र यल्लिङ्गस्य विवक्षा तस्य नियतैवोपस्थितिरिति नामार्थत्वेनैव सिद्धिरिति लिङ्गग्रहणमनावश्यकम् । एवं परिमाणमपि द्रोणादिपदानामर्थ एवेति तस्यापि नियर्तवोपस्थितिः, मेयपरत्वे च लाक्षणिकस्थलेष्विव लक्षणयैव तदर्थ - बोध इति न तदर्थमपि परिमाणग्रहणमावश्यकम् । वचनग्रहणमपि नावश्यकम् - एक इत्यादी कर्मादिबोधाभावेन द्वितीयादिविभक्त्यनुत्पत्तौ साधुत्वार्थं प्रथमायाः स्वभावत एवोत्पत्तिः । न चैकत्वादीनामभिहितत्वादेकवचनस्याभावे
द्विवचनादीनामन्वयासम्भवाच्च कथमत्र प्रथमापि भविष्यतीति वाच्यम्, 'अपदं न प्रयुञ्जीते तिनिषेधस्मरणात् पदविभक्त्युत्पत्तेरावश्यकत्वेनानुवादकविभक्तेरुत्पत्तौ बाधकाभावादिति नामार्थे- अर्थे वा - प्रयमेत्येतावतव सर्वेष्टसिद्धिरिति नव्या आहुः । स्वमते च एकत्वादिवृत्ते -
स्वार्थ
स्वार्थी एव प्रथमा विहितेति तावतैव सर्वेष्टसिद्धिरिति विवृतमेव बृहद्वृत्तौ प्रपञ्चितं च महार्णवन्यास इति विस्तरभयादिह नानूद्यते ||२||३१||