________________
१८६
स्वपरिमाणान्वयेऽपि समानविभक्तिकत्वं तन्त्रमभ्युपेयमिति ।
एवं "वामे बहून् कुशान् कृत्वा दक्षिणे तु कुशत्रयम् " इत्यादावपि तात्पर्यं विशेषेण बहुशब्दार्थताच्छेद के त्रित्वे, तात्पर्य विशेषबहुवचनार्थं त्रित्वास्यान्वयः, किंवा बहुवचनार्थ
वचनमपि प्रथमाविभक्त्यर्थः । वचनं च संख्या, एकत्वं द्वित्वं बहुत्वं च । तत्रैकत्वं ववचित्प्रकृत्यर्थतावच्छेदकव्यापक बहुत्वात्मकत्रित्वविशिष्टेषु कुशेषु बहुशब्दार्थत्रित्वविशिष्टस्य
संसर्गेण प्रकृत्यर्थेऽन्वेति । यथा परमेश्वर इत्यादी समग्रश्वयं प्रकृत्यर्थतावच्छेदकव्यापकसमवायेनकत्वं परमेश्वरेऽन्वेति । क्वचित्पदान्तरार्थ व्यक्तिविशेषघटितेन प्रकृत्यर्थतावच्छेदकव्यापकेन संसर्गेण प्रकृत्यर्थेऽन्वेति यथा वेदाः प्रमाणमित्यादी सकलवेदनिष्ठप्रमितिकरणतावच्छेदकव्यापकसमवायसम्बन्धे
तादात्म्येन निराकांक्षत्वमिति बहुशब्दप्रयोगसार्थक्याय कुशविशेषणं त्रित्वम्, तथान्वयविशेष्ये अयोग्यताया इव निराकांक्षताया अपि विशेषणान्वयप्रयोजकत्वात् । एवं वामे नवकुशधारणमपि क्वचिद्य ुज्यते साम्प्रदायिकं, विशिष्टानाम् । एवं यदादिशन्ति पूज्यपादा इत्यादी पादविशेषणपूजायामनिर्धारितविशेषस्य बहुत्वस्य विवक्षितस्य बहुवचनार्थस्य 'सविशेषणेही 'ति न्यायादन्वयः । एवं गोदी ग्राम इत्यादी द्वित्वस्य गोदयोनिवासविशेषणीभूतयोरत्वयो निरा बाघ एव । गोदशब्दोऽपि नासत्यशब्दवन्नित्यद्विवचनान्तोऽपि न द्वित्वविशिष्टवाचकः, येन निरकांक्षतया नान्वयः प्रसज्येत ।
नैकत्वं प्रमाणेऽन्वेति । ईदृशसंसर्गेण कत्ववैशिष्टयमेव सजातीयद्वितीय राहित्यं ज्ञापयति । एवं द्वित्वमपि ; आश्विनेयाबित्यादी अश्विनीपुत्रत्व प्रकृत्यर्थतावच्छेदकव्यापक संसर्गेण द्वित्वमाश्विनेययोरवेति । ईदृशसंसर्गेण द्वित्ववैशिष्ट्यमेव जातीयतृतीय राहित्यं ज्ञापयति । इत्थं संसर्गवैचित्र्येणंकत्वद्वित्वयोरन्वयसम्भवेन नाव्यावर्त्तकत्वम् । वहुत्वं तु नेदृशसंसर्गेणान्वेति सजातीयराहित्यस्य ज्ञापयितुमशक्यत्वात्, बहुत्वस्य सकलसंख्याव्यापकत्वात् । छात्राः समागता इत्यादी त्रयाणां छात्राणां बोधस्य तात्पर्यविषयत्वे बहुत्वत्वेनैयत्रित्वस्य बोधस्तात्पर्येण; संसर्गवैचित्र्येण त्रित्वबोधनासम्भवात् । एवं यत्र प्रकृत्यर्थतावच्छेदकमेकं तत्र प्रकृत्यर्थतावच्छेदकव्याप्यसंसर्गेण द्वित्वबहुत्वयोरन्वयः तेन घटाकाययोद्वित्वस्य घटपटाकाशानां बहुत्वस्य च गगने सस्तादाकाशावाकाशा इति न प्रयोगः । यत्र प्रकृत्यर्थतावच्छे— दकं नाना धवखदिरावित्यादौ, तत्र द्वन्द्वस्थले ब्युत्पत्तिर्वचिश्रोण धवत्वखदिरत्वनिष्ठान्योन्याभाव प्रतियोगितानदच्छेदकपर्याप्तिसंसर्गेण द्वित्वं तयोः प्रकृत्यर्थतावच्छेदकयोरन्वेति । तादृशपर्याप्त्या स्वाश्रय प्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन प्रकृत्यर्थयोर्वाऽन्वेति । एवं बहुत्वमपि धवखदिरपलाशा इत्यादी प्रकृत्यर्थतावच्छेदकेषु प्रकृत्यर्थेषु वा दर्शितरीत्यान्वेति ।
मार्थप्रकाशः
- ननु गगन शब्दस्य शब्दविशिष्टवाचकतया गगनपदार्थ - कदेशे शब्दे बहुत्वान्वयविवक्षायां गगनानीति प्रयोगः स्यात् । एकदेशेऽन्वयानभ्युपगमे पूज्यपादाइत्यत्रैकदेशे पूजायां बहुत्वान्वयो न स्यात् । एवं वेदाः प्रमाणमित्यत्र प्रमाणत्वेन कत्वान्वयः स्यादिति चेत्, व्युत्पत्तिवैचित्र्येणान्वयोपगमेन समीहितसिद्धी नैकदेशान्वयोऽभ्युपेयते; पूज्यपादा इत्यत्र पूजाविशिष्टपादे बहुत्वान्वयः पादे बाधात् पूजायां पर्यनस्यति, शिखी विनष्ट इत्यादिवत् । एवं प्रमाणमित्यत्र प्रमाविशेषितल्युडर्थकरणे एकत्वान्वयः करणे बाघात् प्रमायां पर्यवस्यति । तत्रापि स्वाश्रयशब्दवत्वसम्बन्धेन प्रमायामन्वेति ' सविशेषणे हि विधिनिषेधी सति विशेष्यबाधे विशेषणमात्रे पर्यवस्यती 'ति न्यायात् । तदेव विशेषणं यत्सामान्यधर्मवतो व्यावर्तयति, यथा घटे नीलादिः नीलान्यघटात् स्वाश्रयनीलं व्यावर्तयति । शब्दस्तु नेदृशं येन गगनानीति प्रयोगः स्यात्, पूजा प्रमाचेदृशमेव विशेषणमिति ।