________________
१
तथा सति तु त्वस्यैकदेशतया तत्र धात्वर्थानन्वयप्रसङ्गात् । धात्वर्थान्वितकतु त्वाभावस्य त्याद्यर्थत्वाभ्युपगमे तण्डुलं पचति नेत्यादी धात्वर्थस्यैकदेशतया तत्र तण्डुल कर्मत्वानन्वयप्रसङ्गात् । धात्वर्थान्वितत्याद्यर्थान्वयिनि प्रथमान्तार्थे, तादृशत्याद्यर्थान्वितनञ्चर्थान्वयिनि च प्रथमान्तायें त्याद्यर्थसंख्यान्वयस्य व्युत्पन्नत्वात् घटी घटा वा नास्तीति प्रयोगः ।
स्यार्थप्रका
वस्तुतस्तु कर्तुत्वस्य त्याद्यर्थत्वमावश्यकमेव पचतीस्यादी प्रथमां विना कर्तृत्वस्य प्रतीयमानत्वात् । प्रथमार्थत्वं तु न युज्यते स्यादि विना तस्य कुत्राप्यप्रतीयमानत्वात्, अन्य लभ्यत्वाच्च । पटो न घट इत्यादी पटघटभेदान्वयबुद्धी जायमानायां घटपदोत्तरप्रथमायाः कथमपि कर्तृत्वप्रत्यायकत्वं न सम्भवतीति न कर्तृत्वं प्रथमार्थ इति, पचतीत्यादी तृतीयाया असाधुत्वात् षष्ठया असाधुत्वात्, षष्ठयर्थस्यानिवक्षणाद्वा, द्वितीयादेरर्थस्यायोग्यत्वात् "न केवलाप्रकृतिः प्रयोक्तव्ये "ति नियमात् साधुत्वार्थं प्रथमोपात्ता प्रथमा चैत्रादिपदानन्तरं प्रयुज्यते इति ।
लिङ्गमपि प्रथमाविभक्त्यर्थोऽनन्यलम्यत्वात् । लिङ्ग - पुस्त्वं, स्त्रीत्वं क्लीवत्वं च । तत्र शोणिताधिकशुक्रसमवेतप्राणित्वं पुंस्त्वम् शुकाधिकशोणितसमवेतप्राणित्वं स्त्रीत्वम्, समशुक्रशोणितोभयसमवेतप्राणित्वं क्लीवत्वम् । तथा च निरुक्तम् - शुक्रातिरेके पुमान् भवति शोणितातिरेके स्त्री भवति, द्वयोः समत्वे षण्ढो भवतीति । इदं च प्राणिविषयक पुस्वादि लक्षणम् । सामान्यतस्तु सत्वाधिक्ये पुस्त्वम्, रज आधिक्ये स्त्रीत्वम् उभयोः साम्ये क्लीवत्वमिति । अन्ये तु घटादिशब्दे पुंस्त्ववाचकस्यादिप्रकृतित्वं पुंस्त्वमोपचारिकम् । एवं तटीत्यादी तटशब्दे ईत्वेन स्त्रीत्ववाचकस्य - श्रीप्रत्ययस्य प्रकृतित्वं स्त्रीत्वम्, खट्वेत्यादौ खट्वशब्दे आत्वेन स्त्रीत्ववाचकस्य आप प्रत्ययस्य प्रकृतित्वं स्त्रीत्वम् । दवी -
त्यादी क्लीबत्ववाचकस्य लोपस्मारितस्यादेः प्रकृतित्वं क्लीबत्वम्, कुण्डमित्यादी कुण्डशब्दे क्लीवत्ववाचकस्याम् स्मारितस्यादेः प्रकृतित्वं क्लीवत्वमित्येवं रीत्या सर्वत्रोपचारिकं लिङ्गबोधनं प्रथमया भवति || परिमाणमपि प्रथमाविभक्त्यर्थः । परिमाणं गुरुत्वं परमितिश्च । द्रोणो व्रीहिरित्यादी गुरुत्वविशेषवाचिनो द्रोणशब्दात् विहिता प्रथमा गुरुत्वमभिधत्ते । प्रथमार्थ गुरुत्वे द्रोणपदार्थस्याभेदेनान्वयः तादृशगुरुत्वं व्रीहावन्वेति । एवं द्रोणभिन्नगुरुत्ववान् ब्रीहिरिति वाक्यार्थ बोषः । वितस्तिः शङ्ख इत्यादी द्वादशाङ्ग ुल परिमाणवाचिनो वितस्ति शब्दात् विहिता प्रथमा परिमाणमभिवत्ते । प्रथमार्थपरिमाणे वितस्ति शब्दार्थस्याभेदेनान्वयः, तादृशपरिमाणस्य शङ्खेऽन्वयः ; एवं वितस्त्यभिन्नपरिमाणवान् शङ्ख इति वाक्यार्थबोध इति अनन्यलभ्यत्वात् गुरुत्वं परिमितिश्च गुरुत्वत्वेन, परिमाणत्वेन व प्रथमार्थं इति । अत्र गुरुत्वविशेषविशिष्टवाचिनो द्रोणशब्दस्यार्थः व्रीहौ, परिमाणविशिष्टवाचिनो वितस्तिशब्दस्यार्थः शङ्ख तादात्म्येनास्वेति । तावतैव व्रीहौ गुरुत्वविशेषवैशिष्टयस्य, शङ्ख परिमाणविशेषवैशिष्ट्य चावगमसम्भवात् । गोकुलनाथोपाघ्यायास्तु- गुरुत्वत्वेन गुरुत्वस्य परिमाणत्वेन च परिमाrt भानमप्रामाणिकमेवेति गुरुत्वं परिमाणत्वं च न प्रथमार्थः इति पदवाक्यरत्नाकरे प्राहुः । युज्यते चायमर्थ:, तथाहि - यदि परिमाणं प्रथमार्थः, तस्य प्रकृत्यर्थ विशेषितस्य नामान्तरार्थेऽन्वयः तदा राजः पुरुष इत्यादाविव द्रोणव्रीहिरित्यादौ समानविभक्तिकतानियमो न स्यात् । तथा च द्रोणो, श्रीहि व्रीहिणा व्रीहेः व्रीही वेतिरूपेण यथार्थ' व्रीहेः विभिन्नविभक्त्यन्तत्वेऽपि द्रोणपदात्प्रथमेव स्यात् इति । किन्तु यदि द्रोणो ब्रीहिरित्यादौ गुरुत्व विशेषविशिष्टाभिन्नतयैव बोधस्तर्हि तदर्थं प्रथमायास्तत्र शक्ति रावश्यक्ये वानन्यलभ्यत्वात् 1 यदि च प्रकृत्यर्थविशेषितयोस्तयोः प्रथमार्थयोः समानविभक्ति पदान्तरार्थ एवान्वयः तदा तादात्म्यान्वय इव गुरु