________________
प्रथमाथप्रकाशः
यत्तुत्यादिनिपाताभिहितकारकः प्रथमार्थः चैत्रः पचति, तण्डुलः पच्यते, वृक्षः छेतुं साम्प्रतम्, इत्यादी कर्तृस्वं कर्मत्वं प्रथमयाऽभिधीयते । अत एव नामार्थविशेष्यकत्याarraratधे नाम्नः प्रथमान्ततानियमः । तेन ब्राह्मणस्य पक्तृत्वसम्प्रदानत्वोभयविवक्षायां पचति ब्राह्मणाय देहीति न प्रयोगः ॥ त्यादिना प्रथमया च कर्तृतात्वेनैका कर्तृत प्रतिपाद्यते, एकवचनैकत्वसंख्येव । एवं नामार्थविशेष्यकत्याद्यर्थ प्रकारकान्वयबोधे त्यादिजन्याया इव स्यादिजन्याया अपि उपस्थिते: सहकारित्वमत एव चैत्रः पचतः इति न प्रयोगः । न वा पचति ब्राह्मणाय देहीत्यस्य शतृशान जापस्या वारणेऽषि पक्ष्यति देवदत्ताय देहीत्यस्य प्रयोगो दुर्वार: चतुर्थ्याः स्याद्यर्थकार कानभिधायित्वात् । न च चैत्रः सुन्दर इत्यादी न कारकार्थोपपत्तिरिति वाच्यम्, तत्राप्यध्याहृतास्तिक्रियाकारकत्वस्य प्रथमयाऽभिधानात् ; "अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति" इति कात्यायनस्मरणात् । न च रामो रावणस्य कल्की म्लेच्छस्य हन्तेत्यादी कथं क्रियापदाध्याहारः अस्तीत्यर्थस्यान्वेतुम योग्यत्वात् ( रामस्य भूतकालिकत्वात् कल्किनो भविष्यात्वात् )- इति वाच्यम् अत्र वाक्यभेदस्यावश्यकत्वे- आसीदिति रामे भविष्यतीति कल्किन्यध्याहारसम्भवात् भवन्तीपर इत्यस्योपलक्षणत्वात् । न च भूतभविष्यवर्तमानानां द्रव्याणां विभागार्थं नामनिर्देशस्थले- आसीदस्तिभविष्यतीत्येक तमस्याध्याहारासम्भवात् का गतिरिति वाच्यम् उद्देशवाक्यार्थे विभागवाक्यार्थस्थान्वयसम्भवेन सन्तीत्यध्याहारसम्भवात् । विभागवाक्यार्थे उद्देशवाक्यार्थ स्यान्वयविवक्षणे तु एकवचनान्त बहुवचनान्तयोरुभयो
साधुत्वेन अस्तिसन्तीत्युभयोरपि साधुत्वात् । न चातीतानागतयोः कथं वर्तमानसत्ताया अध्याहृतत्याद्यर्थस्यान्वय इति वाच्यम्, वर्तमानत्वाविवक्षणेऽपि धात्वर्थ सम्बन्धविवक्षणे वर्तमानाप्रयोगस्य युक्तत्वात् । "वारिदः सुखमाप्नोति सुखमक्षय्य - मन्नद" इत्यादि दर्शनात् । न च 'हंसोव धवला कीर्तिः '
ܕ܀
इत्यादी धवलपदात्कीर्तिपदाच्चाध्याहृता स्तिपदार्थ स्वरूप भवनकर्ता स्वार्थिकी प्रथमोत्पद्यतां, हंसोपदात्कथं सा तस्याः कर्तृत्वस्येहाभानादिति वाच्यम् तत्रापीवनिपातार्थ भवनकर्तृस्वार्थ कतया प्रथमाया उपपत्तेः । न चेहेवनिपातस्यभवनकर्तृत्वार्थकत्वोपगमेऽन्यत्र कर्मकरणत्वाद्यर्थकत्वमप्युपगन्तव्यं स्यात्-तथा च "शरं रुत्र रिवोदीच्यानुद्धरिष्यन् रानिव" ( रघुवंशे चतुर्थ सर्गे) इत्यादाविवनिपातेन करणकर्मत्वाभिधानात् अनभिहिते करणे तृतीयाविधानात्, तादृशे कर्मणि च द्वितीयाविधानात्तयोरनुपपत्तिरिति वाच्यम्. दर्शितस्थले इवनिपातस्य सादृश्यमात्रार्थकत्वात् करणकर्मत्वाद्यर्थकत्वे मानाभावात् । उस्र, रसानित्यादौ शरैः, उदीच्यानित्येताभ्यां समानलिङ्गवचनकत्वेन साधुत्वार्थिका तृतीया द्वितीया च । तेन उस्रसदृशैः शरैः रससदृशानु - दीच्यानिति प्राथमिको बोधः । अत एवेवपदद्वयं सङ्गच्छते । ततो रविक कोकणकरसकर्म को द्धरण सदृशशरकरणकोदीच्यकर्मकोद्धरणकर्ता रघुः इति विशिष्टवाक्यार्थबोध: ।
"तत्र तृतीयाद्वितीयार्थयोः करणत्वकर्मत्वयोर्धात्वर्थनान्वयात् तृतीयाद्वितीययोर्नानुपपत्तिरिति कालापा ऊचु:तदसत् ; घटोनास्तीत्यादौ घटात्यन्ताभावशब्दे प्रथमया कर्तृ ' स्वाभिधानासम्भवात् । यदि च तत्रास्तिधात्वर्थान्वितत्याद्यर्थात्यन्ताभावविशेष्यतया घटः प्रतीयते तदापि प्रथमया कर्तृत्वाभिधानमसम्भवि प्रथमोक्तकतु स्वस्य नर्थान्वयासम्भवात् । न च त्यादिप्रथमा विभक्तिभ्यामेकमेव कर्तृत्वमुपस्थाप्यते, तत् नार्थे सपटे विशेषणतयाऽन्वेतीति कर्तृत्वाभिधानं निराबाधमिति वाच्यम्, प्रथमार्थाभावस्य नामार्थेऽन्वयासम्भवात् प्रकृत्यर्थे प्रत्ययार्थाभावान्वयस्या - व्युत्पन्नत्वात् । न च तत्राश्रयत्वस्वरूपकतु त्वाभाव एव त्यादिप्रथमयोरर्थः, तस्य घटेऽन्वयः नञ्ञ पदं तात्पर्यग्राहकम्, अतएव त्याद्यर्थान्वयिनिप्रथमान्तार्थे स्याद्यर्थ संख्यान्वयस्य व्युत्पन्नत्वात् घटी घटा वा नास्तीति न प्रयोग इति वाच्यम्,