________________
सप्तम्यर्थप्रकाशः
कायां क्रोशे क्रोशाद्वा पतत शिलेत्पादावपादानाधिकरणयोमध्ये देशः; करणकारकान्तरयोमध्ये देशोऽपि न भवति । एवमन्यत्रापि कारकयोर्मध्ये देशः कालश्च बोध्य इति ॥
इति सप्तम्यर्थप्रकाशः
अथ प्रथमार्थप्रकाशः ।
कारकशक्तिविशेषेषु द्वितीयादयो विहिताः । परिशेषात् कारकशक्तावन्येनाभिहितायां स्वार्थमात्र बुबोधिषया प्रयुक्तानाम्नः प्रथमाविभक्तिः प्रयुज्यते; तदनुशासनाय सूत्रमाह
" नाम्नः प्रथमैकद्विant || २|२|३१||
विवृतं चैतत्सूत्रम् वृहद्वृत्ती- एकत्व - द्वित्व - बहुत्वविशिष्टेऽर्थे वर्तमानान्नाम्नः परा यथासंख्यं 'सि-औ- जस्' इतिलक्षणा प्रथमा विभक्तिर्भवतीति । तथा च नामार्थगतेadreaादिषु प्रथमाया एकवचनादयो विधीयन्त इत्यर्थः पर्यवस्यति । यद्यपि 'एक - द्वि-बहो' इति प्रकृत्यर्थं विशेषणम् न तु प्रत्ययार्थनिर्देशः, तथापि त एव प्रत्यार्था अपि । यतः अनिर्दिष्टार्थाः प्रत्ययाः प्रकृतेः स्वार्थे भवन्ति' इति नियमः नामार्थश्च पञ्चकम् - स्वार्थ- द्रव्य - लिङ्ग - संख्या - शक्ति (कारक) लक्षण: । तथा च अर्थ प्रथमा विभक्तिर्भवति । स्वार्थश्च प्रवृत्तिनिमित्तम्-तच्च स्वरूप-जातिगुण-क्रियाद्रव्य-सम्बन्धादिरूपं त्वतलादिभावप्रत्ययामिधेयम् । भावश्चविशेषणम्, गुण इति चाख्यायते । तत्र स्वरूपप्रवृत्तिनिमित्तकाः गौ: अश्व इत्यादयः, गुणप्रवृत्तिनिमित्तकाः शुक्लः कृष्ण इत्यादयः, क्रियाप्रवृत्तिनिमित्तकाः कारक: पाचक इत्यादयः । द्रव्यसम्बन्धप्रवृत्तिनिमित्तका दण्डी विषाणी इत्यादयः ।
१८३
इत्थं स्वार्थी व्याख्यातः । द्रव्यं च लिङ्गसंख्याद्याश्रयः सवस्वभावं तदित्यादिसर्वनामप्रतिपाद्य विशेष्यभूतम् । लिङ्ग च ज्थाबादिसंस्कारहेतुः शब्दस्वभावमात्रावसेयं स्त्री पुन सशब्दः प्रतिपाद्यम् । संख्या भेदप्रतिपत्तिहेतुभूता एकवचन द्विवचनबहुवचनादिनिमित्तभूता च एकत्वादिer | शक्तिः कारकं वा स्वपराश्रयाश्रितक्रियोत्पत्तिहेतुः विभविभक्तिनिमित्तम्, यस्यां वा त्यादिभिरनहितायां द्वितीयाद्याः कारकविभक्तयो भवन्ति । द्वितीयादिभिस्त्यादिभिचाभिहतेऽर्थे प्रथमा भवति । एवं प्रथमार्थ विस्तरेण व्याख्याय पर्यन्तेऽभिहितं वृहद्व तो- 'तदयं वस्तुसंक्षेपः त्याद्यन्तपदसामानाधिकरण्ये प्रथमेति । त्यादयश्च त्यादि-कृत्तद्धितसमासाः | त्यादिसामानाधिकरण्ये यथा यज्ञदत्तो गच्छतीति । य एवात्र ति प्रतिपाद्यः कर्त्ता ( यज्ञदत्तः ) स एव प्रथमयापि प्रतिपाद्यत इत्युभयोः सामानाधिकरण्यम् । कृत्सामानाधिकरण्यं यथा कृत कट इति । अत्र कृदन्तेन कृत इति शब्देन कृतिविषयभूतो योऽयं प्रतिपाद्यते स एव कटेलिनामोत्तर सिप्रत्ययेनापीति भवति सामानाधिकरण्यम् । तद्धितान्तेन यथा-शत्योऽश्व इति । शतेन क्रीत इत्यर्थे विहितेन तद्धितेन यः शतकरणकक्रयकर्मतया प्रतिपाद्यते स एव प्रथमयापि अश्वेतिनामप्रकृतिकयेति सामानाधिकरण्यम् । प्राप्तोदको ग्राम इति च समाससामानाधिकरण्योदाहरणम् ।
एवं च नाम्नः प्रदर्शितार्थ पञ्चकगते कत्वद्वित्वबहुत्वेषु प्रथमाया एकवचनद्विवचनबहुवचनानि भवन्तीति स्वमतfrend: । तत्र जातिव्यक्तिपक्षभेदेन क्वचित् स्वार्थ: ( जातिः ) एव मुख्यत्वेन प्रतीयते, तादृशस्थले च एकवचनमेव प्रयुज्यते । क्वचित् ( व्यक्ति पक्षे ) द्रव्यमेव प्राधान्येन प्रतिपाद्यमिति तत्रैकवचनादयः सर्वे यथायोगं प्रयुज्यन्ते । एवं क्वचिल्लिङ्गमेव विशेषतः प्रतीयते यथा - तटादिशब्देषु ||
अन्ये च नामार्थ- लिङ्ग - परिमाण - वचन (संख्या)रूपेष्वर्थेषु प्रथमामनुशासति । मात्रग्रहणं च कुर्वन्ति । तथा च नामार्थमात्रस्य - (कर्मादिरहितस्य ) विवक्षाया,