________________
पञ्चम्यर्थप्रकाशः
बुद्ध या विभागबुद्ध: प्राचीनया मत्या समीहितम् इष्टमेकत्वं कुरुभिः सहा पृथग्भावो येषां तादृशान् पञ्चालान् जनपद विशेषान् विभजते कुरुनिवासरूपेण पृथग्भूतेन धर्मेण विवेचयति तदा पञ्चालेभ्यः कुरवो निर्गताः प्रतीयन्त इत्यपायो बुद्धिकृतः प्रतीयत इति तदर्थः ।
न केवलमीदृशार्थस्यैव गौणापायस्वीकारेण संग्रहोऽपि त्वन्येऽपि बहवः प्रयोगा एतेन बुद्धिपरिकल्पितापायाश्रयणेन व्युत्पादनीया इति प्रतिपादयितुम् (बृहद्वृत्तौ ) अतिदिगतिएवम् अधर्माज्जुगुप्सते इत्यिादिना । अन्ये वैयाकरणाः तत्तद्विषयाण्यपादानसंज्ञासूत्राणि वार्त्तिकानि वाऽन्वारभन्ते, तैरपि अवश्यमेव तत्रापायस्य सम्बन्धः स्वीक्रियते चेन्न तेषां वचनानामावश्यकता भवेत् । पातञ्जलमहाभाष्ये च सर्वत्रात्र बुद्धिकल्पितमयागं स्वीकृत्य तानि तानि वचनानि प्रत्याख्यातप्राय । ण्येव । स्वमतेऽपि तादृशवचनानामदर्शनातेषां लक्ष्याणामनेन गौणायायस्वीकारेणैव निर्वाह: इति यथायथं विवृतमेव वृत्तौ । तत्रतेषु धात्त्वर्थविभक्त्यर्थादिविचारो नैयादिकैर्यथा क्रियते तदिह संक्षेपतः प्रदर्श्यते ।
अधर्माज्जुगुप्सते विरमति वेत्यत्र सुपेर्गही नाम द्वेष विशेष:, विरमतेनिवृत्तिर्यत्नोऽर्थः । धर्मात्प्रमाद्यतीत्यत्र प्रभादेरनुद्बुद्धसंस्कारोऽर्थः । सर्वत्र पञ्चम्या विषयत्वमर्थः, तथा च पापविषयकगर्हाश्रयत्वम्, पापविषयकनिवृत्याश्रयत्वं धर्मविषयकानुद्बुद्ध संस्काराश्रयत्वं वाक्यार्थ इति सम्प्रदायः । पञ्चम्यर्थो विषयत्वम्, गकरणयोरभाव प्रतियोगिषु चान्वेति पापविषयक गप्रयुक्तः पापविषयकप्रवृत्यभावः । पापविषयक करणादनन्तरस्तदभावः धर्मविषयक कर्तव्यतास्मरणाभावप्रयुक्तो धर्मविषयकप्रवृत्यभावः- क्रमशोवाक्यार्थ इत्याहु: ।
१२५
वा पञ्चम्यर्थस्तथेहापीत्येव स्वीकरणीयमिति विषयत्वार्थवर्णनमनुचितमनाकरमिति प्रतिभाति ।
वस्तुतस्तु बुद्ध, यादिविगमस्वरूपापायवती जुगुप्साद्यपादनत्वज्ञापनार्थमपादानसूत्रेकवाक्यतया तानि तानि वचनान्यारब्धानि तथा च य एवार्थोऽपायरूपो मुख्यापादान* स्थलेषु प्रतीयते स एवात्रापीति, तत्र यथा विभागोऽवधित्वं
पुनरन्ये नव्या आहु: :- एषु कर्तव्यत्वप्रकारकज्ञानविशेष्यत्वाभावः पञ्चम्या अर्थः । स च प्रयोजकतया जुगुप्सायामन्वेति । पञ्चम्यर्थे तादृशाभावे प्रकृत्यर्थस्याधेयतयाऽन्वयः, जुगुप्सा तु द्वेषविशेषः, यद्वा अपकर्षप्रतिपत्त्यनुकूलो व्यापारः । अत एव जुगुप्सतिः सकर्मकः, तत्र कर्मणोऽपादानत्वविवक्षायां पञ्चमी इतरथा तु पापकर्माणि जुगुप्सत इति द्वितीयैव उचिता । तथा च पापाज्जुगुप्सत इत्यत्र पापपदस्य पापकर्मपरतायां दुरितजनकत्वमपकर्षः, दुरितपरतायां तु दुःखजनकत्वमपकर्षः तथा च पापवृत्तेः कर्तव्यत्वप्रकारक बुद्धिविशेष्यत्वाभावस्य प्रयोजकोऽपकर्ष प्रतिपश्यनुकूलो व्यापारो वाक्यार्थः । पापस्थापकर्षप्रतिपत्तिविशेष्यत्वमर्थात्प्रतीयते । नान्यनिष्ठस्य कर्तव्यताबुद्धिविशेष्यत्वाभावस्य प्रयोजकोऽन्यनिष्ठापकर्ष प्रतिपादकः संभवति । देवदत्ताज्जुगुप्सत इत्यत्र पञ्चम्या गुणाभावोऽर्थः गुणो धैर्यादिः, अपकर्षश्चात्र क्रोधलोभादिः । अन्वयः पूर्ववद्बोध्यः । एतेन जुगुप्सारूपद्वेषविषयस्य क्रियाफलेन विषयत्वेनाभिप्रेततया सम्प्रदानत्वमेव, यथा श्राद्धाय निगर्हत इति; तथा चात्रापादनत्वाभावात् पञ्चम्यप्रसक्तेः पापाज्जुगुप्सते इति प्रयोगो न स्यादित्यपास्तम् क्रियाफलेनापकर्षप्रतिपच्या अनभिप्रेतत्वात्सम्प्रदानत्वाप्रसक्तेरिति ।
पापाद्विरमति निवर्तते वेत्यत्र धातोर्निवृत्तिर्यल एवार्थः, पञ्चम्याः काभ्यत्वाभावोऽर्थः । पापवृक्षैः काम्यत्वाभावस्थ प्रयोजिका निवृत्तिर्वाक्यार्थः । पापे निवृत्तिविषयत्वं पूर्ववदर्थात्प्रतीयते । करणानन्तरमकरणं तु न विरमत्यादेरर्थः तथासति चैत्रः परस्त्रीगमनाद्विरतो निवृत्तो वेति प्रयोगानुपपत्तेः । धर्मात्प्रमाद्यतीत्यत्र प्रमाद्यतेनिश्चयाभावोऽर्थः पञ्चम्याः प्रवृत्तिविषयत्वाभावोऽर्थः धर्मवृत्तेः प्रवृत्तिविषयत्वाभावस्य प्रयोजको निश्चयस्त्वर्थात्प्रतीयते स च कर्तव्यस्वप्रकारकः । निश्चयविशेष्यत्वं धर्मो पूर्ववदर्थात्प्रतीयते ।