________________
१२६
स्याद्यर्थ प्रकाशे
तोथीत्प्रमाद्यतीत्यत्र तीर्थपदस्य तीर्थगमने धातोर्वा गमननिश्चयाभावे लक्षणा । स्मरणं तु न प्रमाद्यर्थे निविशते । तथा सत्यनवगतान्धपुत्रो दशरथोऽन्धपुत्ररक्षणात् प्रामाद्यदित्यत्र अपूर्वान्धपुत्ररक्षणविशेष्यकस्मरणाप्रसिद्ध यानन्वया. पत्रोः ।
एवं भयार्थानां त्राणार्थानां चापि धातूनां प्रयोगे पञ्चमीप्रयोगो दृश्यते यथा व्याघ्राद्विभेति चोरात्रायत इत्यादि । अत्रापि य एव मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति यदि मां व्याघ्राः पश्यन्ति, तर्हि ध्रुवो मे मृत्युरिति स बुद्ध या व्याघ्रान् संप्राप्य ततो निवर्त्तत इति बुद्धिकृतोऽपायोस्त्येवेति गौणापायलक्षणसत्त्वात् अपादानसंज्ञया पञ्चमी सिद्धा । चोरात्रायत इत्यत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी दयालुः सुहृद्भवति स पश्यति यदीमं चौराः पश्यन्ति ध्रुवमस्य वधवन्धनादिपरिक्लेशाः स्युरिति स बुद्धया चौरात् संप्राप्य ततस्तं निवर्तयतीति बुद्धिकृतोऽपायोऽत्राप्यस्तीति गोणापायनिमित्तकमपादानत्वमिहापि
सिद्धमिति विनैव वचनान्तरं पञ्चमी सिद्धा ।
अत्र गोडा: परतोऽनिष्टसम्भावनास्वरूपं भयं तदर्थका बिभेत्यादयः । अनिष्टानुत्पत्यनुकूलव्यापारस्वरूपं त्राणं तदर्थास्त्रायत्यादयः । एतेषां धातूनां योगेऽनिष्टप्रयोजकस्यापादानसंज्ञां विधाय पञ्चमीं विदधति । पञ्चम्याश्च प्रयोजकत्वमर्थं इति वर्णयन्ति । स चार्थो धात्वर्थघट केsनिष्टेऽन्वेति । यदि च यस्य पुंसो व्याघ्राधीनमनिष्टमप्रसिद्ध किन्तु व्याघ्राधीनत्वेन मरणमसी सम्भावयति तत्पुरुषपरो व्याघ्रादयं विभेतीति प्रयोगस्तदा पञ्चम्यर्थः प्रयोज्यत्वप्रकारत्वं धात्वर्थेऽनिष्टसम्भावनायामन्वेति । दर्शितस्थले तस्य पुंसो व्याघ्रप्रयोज्यत्वप्रकारिकाया अनिष्टसंभावनायाः सत्त्वान्नानुपपत्तिः । एवं च शत्रुभ्रमेण मित्राद्वितीति प्रयोगोऽप्युपपद्यते । अत्रानिष्टं च दुःखमेव सर्वत्रानुगतं बोध्यम् । यत्प्रयोज्यं दुखं न कस्यापि प्रसिद्ध तादृशस्याहिकण्टकादेर्यद्यपादानत्वमिष्टं तहि दुःखोपघातक -
व्यापारविरहस्यानुकूलो व्यापारस्त्राणं तत्र दुःखवतः कर्मत्वम्, तथाविधव्यापारविरहाधिकरणस्यापादानत्वम्, तथा च तथाविधाहिकण्टकाद्यपादानकं स्वकर्मकत्राणमेव प्रसिद्धम् । यत्राचेतनस्य घटादेः कर्मत्वं तन्नाशोपधायकव्यापारविरहस्यानुकूलो व्यापारस्त्राणं तत्र नाशवतः कर्मत्वम् । एवं तत्सपत्रायत इत्यादी पञ्चम्या आधेयत्वमर्थ इत्यादि वदन्ति ।
तच्चिन्त्यम्, नरकाद्विभेतीत्यादी नरकजन्यानिष्टान्तरस्याभावादनन्वयापतेः । प्रयोज्यत्वप्रकारकत्वस्य पञ्चम्यर्थस्या निष्टसम्भावनायामन्व योपगमेऽपि प्रयोज्यत्वस्य अनिष्टान्वयानुपगमे व्याघ्रप्रयोज्यो वृकनाशः वृकप्रयोज्यो बालनाशः. बालश्च मम पुत्रः सम्भाव्यते इति ज्ञानदशायां बालपुत्रोऽयं व्याघ्रादिभेतीति प्रयोगापतेः । अनिष्टाम्बये तु यत्रानिष्टमप्रसिद्ध न्तत्र दोष इति विज्ञेयम् । न च प्रयोज्यत्वप्रकारत्वस्य स्वनिरू पितानिष्टनिष्ठविशेष्यताप्रतियोगित्वेन सम्बन्धेन सम्भावनायामन्नायोपगमात् नोक्तदोष इति वाच्यम्, तथा सति सम्भावनामात्रस्य बिभेत्यर्थत्वापत्त ेः । मैत्रस्य "व्याघ्रप्रयोज्यं चैत्रस्य दुखं सम्भाव्यते " - इति ज्ञानदशायां मंत्रो ब्याप्राविमेतीति प्रयोगापत्त ेः । तत्तत्पुरुषौयदुःखविषयकत्तत्त त्पुरुषीयसम्भावनाया धात्वर्थत्वेऽननुगमाद्दुर्ब्रहत्वापत्त ेः । समानाधिकरणदुःखविषयकसम्भावनायास्तथाखे न यत्र दुःखत्वेन शरीरनाशादिः सम्भावितस्तत्र दुःखादिभेतीतिवत् शरीरनाशाद्विभेतीति प्रयोगानापत्त ेः । नरकात्रायत' इत्या दावपि नरकप्रयोज्यानिष्टान्तरस्याभावात् (नरकस्यैव तत्तदनिष्टसमुदायरूपत्वान् ) अनन्वयापत्त ेः ।
भयत्वं द्वेषत्वावान्तरजातिः सैव बिभेतेः प्रवृत्तिनिमितम्, फलावाचकत्वादेवासो यतिवदकर्मकः । तत्र दुःखगोचरे भये स्वस्मिन् भावित्वप्रतिसन्धानमेव कारणम् । अत्र द्वेष स्तत्सामग्री वा सहकारितयाऽपेक्ष्यतेऽतो रागान्धानामास्तिकानां नरकाद्, यियक्षूणां यागश्रमात्, मुमुक्षूणां तितिक्षादिक्लेशाद्वा, न भयमित्यादयः प्रयोगा उपपद्यन्ते । उपाय