________________
स्यार्थप्रकाशे
૨૨૪
विवृतं चैषां स्वरूपम् - यत्र धातुनाऽपायलक्षणो विषयो निर्दिष्टस्तनिर्दिष्टविषयम् इति । अत्र धातुनैव यंत्र मुख्यया वृत्या विभागजनिका गतिनिदिश्यते तदित्येकं लक्षणम् 1 उदाहरति यथा ग्रामादायातीति । अत्र ग्रामविभागपूर्वक एवोत्तरदेशसंयोगो धातुना प्रतिपाद्यत इति तत्रापायविषयस्य धातुनैव निर्देश इति भवति लक्षणसमन्वयः । यथा वा अश्वात्पततीति । अत्र पतनक्रिया ऽश्वावधिकविभागपूर्विकेव भवति स च विभागो धात्वर्थ एवान्तर्भूत इति धातुनिर्दिष्ट एव । द्वितीयं लक्षयति यत्र धातुर्धात्वस्तरांर्थाङ्ग ं स्वार्थमाह तदुपात्तविषयमिति । समभिव्याहृतधातुना स्वतो न विभागः प्रतिपाद्यतेऽपि तु धात्वन्तरार्थाङ्गविभागः प्रतिपाद्यते तत्र विषयस्यान्यत उपासत्वादुपातविषयता । यथा वहालकाद्विद्योतते विद्य ुदिति । हि बलाहकान्निःसृत्य प्रकाशते इत्यर्थावगमात् निःसरणरूपो विभागो धात्त्रन्तरार्थाङ्गभूत इति भवति लक्षणसमन्वयः । यथा वा कुशूलात्पचतीति । अत्रापि कुशूलादुद्धत्य पचतीत्यर्थावगतेः उद्धरणाङ्गभूतो विभागोऽन्यचात्वर्थभूत एव प्रतीयत इति लक्षणसंगतिः । तृतीयं लक्षयति-यत्र तु क्रियावाचिपदं न श्रूयते केवलं क्रिया प्रतीयते तदपेक्षित - क्रियमिति । अपेक्षिता अन्वयित्वेनाकांक्षिता क्रिया यत्रेतिव्युत्पत्तेर्यत्रापायप्रतिपादको धातुर्नोक्तोऽपि तु तद्वाचकपदमध्याहृत्य, अर्थमेवाध्याहृत्य वा विभागावगतिर्भवति तदित्यर्थः । सांकाश्य केभ्यः पाटलिपुत्रका अभिरूपतरा इति । अत्र सांकाश्यकेभ्यः पाटलिपुत्राणामभिरूपतरत्वेन विभागः निर्धारणं वा बुद्धयाऽपेक्षितमिति विभज्य पृथक्कृतिरूपोऽर्थोऽपेक्षित इति तदपेक्षयाऽपादानमुदाहरन्ति । हि आगच्छतीत्यादिक्रियार्थमपेक्ष्य पञ्चमी भवति । सांकाश्य केभ्यः पाटलिपुत्रका अभिरूपतरा इत्यादि प्रयोगार्थं च तद्विषये पाणिनीयं सूत्रम् 'पञ्चमी विभक्ते' ( पा०सू० २।३१४२ ) इति । यतश्च निर्धारणम् ( २।३१४५ ) इति च जातिगुणक्रियादिभिः पृथक्कृतौ सप्तम्या सह वैकल्पिक पञ्चमीं शास्ति । पञ्चमी विभक्ते' इति च
अत्र
अत्र
भेदप्रतिपादेन नित्यमेव पञ्चमीं शास्ति । स्वमते च तृतीयापादनलक्षणेनैव गतार्थमिति न तदर्थं पृथक्सुत्रमारम्यते इति ।
केचित्तु निर्दिष्टविषयमित्यादिलक्षणत्रयमित्थं व्याचक्षते थत्र विभागस्तज्जनकक्रिया चेत्युभयं समभिव्याहृतधातुनव निर्दिश्यते तदाद्यम् । यत्र विभागोऽध्याहृतधातुना तज्जनिका क्रिया च समभिव्याहृतधातुना प्रतिपाद्यते तद्द्द्वितीयम् । यत्र तु भयमप्यध्याहृतधातुनैव प्रतिपाद्य' तत्तृतीयमिति । उदाहरणानि पूर्वीक्तानुसारीण्येवेति ।
'सांकाश्य केभ्यः पाटलिपुत्रकाः अभिरूपतरा' इत्यादी मूर्त द्रव्यसंयोगनाश रूपविभागस्याप्रतीत्याऽपायाभावात्कथमपादानत्वमिति शङ्कां मनसिकृत्यापायी विध्यमुक्तं वृहद्वृत्ती अपायश्च कायसंसर्गपूर्वको वेति । अयमाशयः न केवलं मूर्तद्रव्यसंसर्गपूर्वक एवं विभागोऽपायोऽपि तु बुद्धयापि ये पदार्थाः परस्परं केनापि सम्बन्धेन सम्बद्धाः प्रतीयन्ते तेषां केनापि हेतुना पृथक्कृतिबुद्धिर्यदि प्रतिपिपादयिषिता तदाऽपि विभागप्रतीतिर्जायत इति सोऽपि विभागोऽपायत्वेनैव ग्राह्य इति भावः । उक्तोदाहरणे सांकाश्यकैः सह पाटलिपुत्रकाणां गुणान्तरैः समानानामपि अभिरूप्य प्रकर्षाश्रयत्वेन बुद्ध या पृथक्कृतिः प्रतिपाद्यत इत्यपायसिद्धिरिति भावः । पातञ्जलमहाभाष्टोऽपि प्रकृतप्रयोगे एवमेव समाधानमुक्तम्- "यस्तैः साम्यं गतवान् स एवम् प्रयुङ्क्ते" इति । विवृतं च कैयटेनैतत् - तैः सांकाश्यकैः पाटलिपुत्रकाणां यः साम्यमवगतवान् स प्रकर्षाश्रयेण पुनः ( तान् ) पृथक्कृत्वा वाक्यं प्रयुङ्कत इति तदर्थ इति । इत्थञ्च द्विविधोपायः मुख्यो गौणश्च । तत्र मुख्योऽपाय: कायसंसर्गपूर्वको विभाग:कायपदेन चेह मूर्त द्रव्यं लक्षितम् । अयं च स्थूलतया सर्वजनवेद्यः । अन्यश्च बुद्धिपरिकल्पितः । स च गौण इति व्यवह्रियते । गौणापायमेवोदाहरति प्राचां वचनेन -
.
वुद्धयासमीहितैकत्वान् पञ्चालान् कुरुभिर्यदा । याविभजते वक्ता तदाऽपायः प्रतीयत" इति ।