________________
पचम्यथप्रकाशः
१२३
सकर्मकत्वमिति विभाव्यते, तदा सदसोऽपसरतीत्यादौ वाक्यार्थः 1 सर्वपापैः स मुच्यत इति अत्र मुञ्चतेः
पञ्चम्या अवधित्वमत्रधिमत्त्वं वाऽर्थो विभागऽन्वेति T यदि च सर्वावयवावच्छिन्न पूर्व देशान्य देशसंयोगफलको व्यापारोऽपसरत्यादेरर्थः तदा सदसोऽपसरति निःसरति, अपगच्छति निर्गच्छति अपति निरेति वेत्यादौ पञ्चम्या विभागोर्थो जनकतया व्यापारेऽन्वेति ।
सम्बन्धाभावप्रयोजको नाशादिव्यापारोऽर्थः । तृतीयार्थः प्रतियोगिताकत्वं कर्तृ स्वनाशेऽन्वेति व्युत्पत्तिवैचित्र्येण पापस्य सम्बन्धे ऽप्यस्वयः 1 सम्बन्धाभावस्वरूपफलवतया तच्छब्दार्थस्य कर्मत्वमिति । तदा च पापप्रति योगिताकनाशप्रयोज्यस्य पापसम्बधाभावस्याश्रयः स इत्यन्वयबोधः । बन्धनान्निगडाद्वा मुच्यत इत्यत्र मुच्यतेबंन्धनाख्यसंयोगनाशक विभागोऽर्थः पञ्चम्या अवधित्वमर्थः विभागेऽन्वेति । विभागस्य धातुना प्राधान्येनोपस्थापनात् प्रधानव्यापरे साक्षाद्विशेषणतयोपस्थित्यविषयत्वात् । बन्धनसव्दस्य करणेऽनप्रत्ययेन रज्जुनिगडादिपरतया धातुनाऽनभिधानान्न ततः पञ्चभ्यनुपपत्तिः ।
क्वचिदन्यादृशोऽप्यपाय:- --यथा पणिकान्मौक्तिकं क्रीणाति, नृपाद गां प्रतिगृह्णाति, इत्यादी स्वस्वामिभावसम्बन्ध विगमोऽपायः पञ्चम्यर्थः ऋये प्रतिग्रहे प्रयोजकतयान्वेति ऋयस्तु स्वत्वेच्छाप्रयोज्यं दानं, प्रतिग्रहः स्वत्वोद्देश्यि केच्छा | पञ्चम्याः स्वत्वनाशोमयं खण्डशो वाऽर्थः तत्र प्रकृत्यर्थस्य निरूपितत्वेन सम्बन्धेन स्वत्वे तस्य प्रतियोगितानिरूपिताऽनुयोगितया नाशेऽन्वयः, तथाविघनाशस्य जनकतया क्रयव्यापारे दाने प्रतिग्रह - व्यापारे स्वत्वेच्छयां चान्वयः । नरकात्पापाद्वा पितॄनुद्धरतीत्यत्रोर्ध्व लोकप्राप्तिफलकादृष्टफलकः श्राद्धादिव्यापार उद्धरतेरर्थः अदृष्टफलवता पितृकर्मणाऽस्य सकर्मकत्वं -- प्राप्तिफलवत ऊर्ध्वलोकस्य धातुनाऽभिधानान्न तेन कर्मणा सकर्मकत्वमिति न द्विकर्मकत्वमिति 1 पञ्चभ्यर्थीsa नाशः प्रकृत्यर्थविशेषित ऊर्ध्व लोकप्राप्तिजनके पितृगते अदृष्टे जनकतयाऽन्वेति शताद्द्द्वियुज्यन्ते शुद्धयन्ति वा दशमिता इत्यत्र विपूर्वकस्य युजेर्धातोरपेक्षाबुद्धिविषयत्वाभावोऽर्थः शतपदस्य शतत्वं सङ्खाऽर्थः पञ्चम्या अनुत्पादोऽर्थः प्रयोजकतया धात्वर्थेऽन्वेति 1 तथा च शतत्वसङ्खानुत्पादप्रयोजकस्यापेक्षा बुद्धिविषयत्वाभावस्याश्र-या दशमिता इत्यन्वयबोधः t नरकात्पापाद्वा मुच्यत इत्यत्र दैवादिकस्य मुच्यतेः दुखात्यन्तविमोक्षानुकूलस्तस्त्रज्ञानादिव्यापारोऽर्थः फलासमानाधिकरणव्यापारार्धकतयास्य सकर्मकत्वमिति पञ्चभ्यर्थीत्वादो नाशश्च प्रयोजकतत्वज्ञानादौ व्यापारेऽन्वेति । नरकानुत्पादस्य पापनाशस्य वा 'प्रयोजको मोक्षानुकूलस्तत्त्वज्ञानादिव्यापारो
ननु पञ्चम्या नानाविधापायार्थकता मपेक्ष्यैकविधातिरिक्ता वधित्वार्थकत्वमेवोचितम् लाघवात् । दर्शितेषु सकलस्थलेषु एकविधस्थावधित्वस्य धात्वर्थेऽन्ययोपगमादभीष्टसिद्ध रिति चेन्मैवम् नानाविधापायस्य प्रतीयमानस्यापलापापत्त ेः । अयमस्मात्तार इत्यज्ञावधित्वस्यैक विधतया नामार्थान्वयेन कारकत्वहान्यापतेश्च । किं च पञ्चम्या एकविधावधित्वार्थकत्वं न सम्भवति । तथा हि वृक्षात्पचतीत्यत्र पाके वृक्षावधित्वान्वयवारणाय तदन्वयबोधं प्रति गमनार्थकधातुजन्योपस्थितेः कारणत्वं स्वीकरणीयम, तथा च वृक्षाद्विभजते इत्यत्रानन्वयापत ेः । न च यद्यद्धातुयोगे पञ्चमी दृश्यते तत्तद्धातुजन्योपस्थितिः पञ्चम्यर्थावधित्वान्वयबोधे हेतुरिति वाच्यम्, अननुगमाद, वृक्षात्कीणातीति प्रयोगापत्तिश्चेत्यलं पल्लवितेन ।
अपादानसंज्ञाविधायकसूत्रव्याख्यायामपादानस्य वैविध्यमुक्तं वृहद्वृती तथा हि तदेतत्रिविधम् निर्दिहविषयम्, उपात्तविषयम् अपेक्षितक्रियंचेति । तदुक्तं हरिणापि --
निर्दिष्टविषयं किचिदुपात्तविषयं तथा । अपेक्षितक्रियं "चेति त्रिधापादानमुच्यत" इति ।