________________
तृतीयप्रकाशः
निरूपकत्वेन संसर्गेणान्वयः इति वदन्ति । तत्र कृदर्थेकदेशे धात्वतिरिक्तार्थस्यान्वयो न व्युत्पत्तिसिद्ध इत्याद्यनुपपत्तिचिन्तनीया । केचित्तु फलविशिष्टं कर्म कुदर्थः, फलस्य द्वेघा शाब्दबोधविषयत्वं --- तृतीयार्थप्रकारस्य कर्मकृदयँकदेशे फलेऽन्वयः, तथा चात्र शाब्दबोधानुकूलव्यापारप्रयोज्यस्य लक्षणादिप्रकार कशाब्दबोधस्य विशेष्येऽनुमाने इति बोध: इति वदन्ति तदपि चिन्तनीयम्, फलस्य द्वेधा शाब्दबोधविषयत्वस्य प्रमाणविरुद्धत्वात् व्युत्पत्तिवैचित्र्येणेन व्यापारविशेषणकफलविशेष्यकबोधस्य सम्भवेनान्व योपपत्तिसंभवात् । फलादेः कर्मप्रत्ययार्थत्वासंभवात् कूदकदेशे धात्वर्थातिरिक्तान्वयस्याव्युत्पन्नत्वाच्च ।
परिच्छिन्नत्वमपि क्वचिदेतद्विहिततृतीयाया अर्थः इत्यादिप्रकारेणास्यास्तृतीयाया अनेकार्थत्वं स्वीकुर्वन्ति परे नव्या वैयाकरणास्ताकिकादयश्च तत्तदर्थस्य प्रकाररूपतयैव भानसंभवात्स्वमते केवलं प्रकारार्थतास्वीकारेणैव निर्वाहइति परमतमिह नातः परं प्रदश्यते; केवलं व्युत्पत्तिवैशद्यायैतावत्प्रदर्शितम् शाब्दबोधप्रकारोऽपि स्वमते भिन्न एव । प्रकृत्यर्थस्य निरूपितत्वसंसर्गेण तृतीयार्थे प्रकारतायां तस्य च निरूपकत्वसम्बन्धेन स्वसम्बद्धनामार्थैकदेशेऽन्वयः, अथवा प्रकृत्यर्थे वृत्तित्वसम्बन्धेन प्रकारताया, निरूपकत्वसम्बन्धेन स्वसम्बद्धनामार्थैकदेशे तस्य च तत्तत्सम्बन्धेन स्वसम्बद्धपुरुषेऽन्वयः । एतदेव सूचितम् "सर्वत्र पुरुषस्तद्वान् सम्बध्यत' इति ग्रन्थेन । इति प्रकारार्थतृतीयाविवरणम् ) ।
Ἐ
पुष्ययुक्तकालाधिकरणकं पायसभोजनं प्रेरणाविषयः इत्यादिरूपेणार्थबोध: । अन्येऽपि वैयाकरणा अधिकरणे एवाऽत्र तृतीयां प्रयुञ्जते इति न तैः सह भेदः । तार्किकास्तुईदृशस्थले तृतीया सप्तम्योरुत्पत्तिरेवार्थः । तथा च पुष्ययुक्तकालोत्पत्तिकत्वं पायसभोजने प्रतीयत इत्यादि प्रतिपादयन्ति तच्च व्याकरणस्मृतिसम्मततया प्रतिपादयितु
द्विष के सूत्रे आधारासम्बन्धं साधयन्ति, तच्च वैयाकरणपरम्पराप्रतिकूलमिति तद्विषयको विचारः परित्यज्यते ॥
काले भावाssurt || २|२|४८||
इदं सूत्रं नक्षत्रवाचिनः शब्दात्- सम्प्रति कालार्थे वर्त्तमानात् आधारे तृतीयां विधत्ते । नक्षत्रवाचिनः कालवाचकत्वं तु युक्ते कालेऽर्थे विहितप्रत्ययस्य लुपा भवति । तथा च पुष्येण पायसमश्नीयादित्यादौ पुष्यादिशब्दाः पुष्ययुक्तकालार्थकाः । तृतीयायाश्वाधार एवार्थः । तथा च
२१२४८३॥
प्रसितोत्सुकाव बद्धैः ||२||४६ ॥
एतेनापि सूत्रेण पाक्षिकी तृतीया एषां शब्दानां सम्बन्धे सत्यनुशिष्यते । तस्या अपि च आधार एवार्थः । आषारश्च औपश्लेषिकाभिव्यापक वैषयिकभेदेन त्रिप्रकारः । तत्र वैषयिकाधारे तृतीयेयं तथा च विषयता तृतीयार्थः । केश: प्रसित इत्यादी केशविषयकनित्यप्रसक्तियुक्त इत्येवमन्वयबोधः । अत्र च परेषामपि समानैव प्रतिपत्तिः न कश्चन वाक्यार्थबोधे विशेष इति || २|२|४९||
व्याप्येद्विद्रोणादिभ्यो वीप्सायाम् || २|२| ५० ॥
अनेन सूत्रेण वीप्साविवक्षायाम् द्विद्रोणादिभ्यः परिच्छेदपरेभ्यः कर्मणि तृतीया विधीयते, तथा च वीप्सासहितं कर्मस्वमेतद्विहिततृतीयाया अर्थः । द्रोणो गुरुत्वपरिच्छेदकावान्तरजातिमान् चतुराढकपरिच्छिन्नः परिमाणविशेषः । क्रयणं च स्वत्वोत्पत्यनुकूलो द्रव्यविनिमयः । तथा च 'द्विद्रोणेन धान्यं कीणाति' इत्यत्र द्रोणद्वयपरिच्छिन्नधान्यसंघातं पौनः पुन्येन द्रव्यविनिमयद्वारा स्वीकरोतीति वाक्यार्थबोध: । वीप्सा च विभक्त्यर्थेऽन्तर्भूतेति न तदर्थे द्विविधिः । तृतीयाऽभावपक्षे च द्वित्वं भवत्येव द्विद्रोणं