________________
F
स्याद्यर्थ प्रकाशे
सम्बन्धेनान्वेति । व्युत्पत्तिवैचित्र्येण तृतीयार्थस्य संसर्गीभूता प्रतियोगितेव प्रतियोगिनो ध्वंसपदार्थस्य नार्थं संसर्गीभवति । अथवा अवच्छिन्नप्रतियोगिताकत्वं तृतीयार्थः तच्च स्वरूपेण सम्बन्धेन नव्नयँऽन्वेति । व्युत्पत्तिचित्र्येण प्रतियोगिनोऽपि संसर्गीभवन्ति इति केचित् । तृतीयार्थोऽवच्छ सत्वं संसर्गीभूत प्रतियोगिताविशेषणतया भासत इति स्व
तन्त्राः ।
वस्तुतस्तु समवायेनेत्यादितृतीयान्तसमभिव्याहारः समवायाद्यवच्छिन्नप्रतियोगिताकत्वसंसर्गेण प्रतियोगिनो हवंसादिशब्दार्थस्य नार्थान्वयबोधे हेतुरित्येव रमणीयमिति । इयमेव गतिः पटत्वेन घटो नास्ति, शशीयत्वेन शृङ्ग नास्तीत्यादावपि बोध्या । क्वचिन्निरूपकत्वमपि एतद्विहिततृतीयार्थ: यथा - 'धूमस्य धूमत्वेन वह्निव्याप्तिः' इत्यत्र निरूपकत्वमेव तृतीयार्थ :- तच्चाधेयतया प्रकृत्यर्थ विशेषितं वह्निव्याप्तावन्वेति । निरूपकत्वं तु व्यापकत्वलक्षणं घटकस्वमिति सम्प्रदायः | अतिरिक्तमित्यन्ये । एव 'मकुरेणा नेकान्त:' इत्यत्र 'वह्नावयः पिण्डेन धूमव्यभिचार' इत्यत्र च घटितत्वं व्याप्यत्वलक्षणमतिरिक्तं वा निरूपकत्वं तृतीयार्थः । तच्च प्रकृत्यर्थविशेषितम्- अनेकान्तपदार्थों व्यभि चारे, धूमव्यभिचारे चान्वेति ।
ववचिद् दैशिकसम्बन्धावच्छिन्नमाधेयत्वं तृतीयार्थः, यथा- 'समेनंति' 'विषमेणेति' इत्यादी । यदीयसकलावयवानां प्रत्येकं स्वसंयुक्तसंयोगादिपरम्पराणामूर्ध्वदिगवच्छ - शानां तुल्यत्वं स भूभागः समो देशः, तदितरो विषमः, तथा च कर्तृ घटितपरम्परासंसर्गावच्छिन्न माधेयत्वं तृतीयार्थः । तच्च प्रकृत्यर्थेन समेन विषमेण च देशेन विशेषितं धात्वर्थगमनेऽन्वेति । न चात्र समादिदेशव्यापारस्य जन्यत्वेन सम्बन्धेन धात्वर्थगमनेऽन्वयात् करणे तृतीया नत्वनेन प्रकारवाचिका तृतीयेति वाच्यम्, करणत्वविवक्षायामिष्टापत्तेः । अविवक्षणे तु आधारस्याधिकरणसंज्ञया तत्कार्येण वा करणसंज्ञायास्तत्कार्यस्य नृतोयोत्पत्तेर्वा बाधात् । न चैयं तृतीयार्थाधिकरणत्वस्य धात्वर्थेऽन्वयात् कारकविभक्ति
त्वापत्तिरस्या इति नामार्थेनान्यत्रान्वयो न स्यादिति वाक्यम्, सर्वत्र धात्वर्थेऽन्वयस्पानियतत्वेन नामार्थेनाप्यन्वयात् । अत एव 'शाखया कपिसंयोगी वृक्ष' इत्यत्र 'श्वेतः खुरविषाणाभ्याम्' इत्यत्र च तृतीयार्थाधेयत्वस्य शाखाविशेषितस्य कपिसंयोगे, खुरविषाणोभयविशेषितस्य श्वेतरूपेऽत्ययो भवति ।
रजतत्वेन पुरोवत्तिनं जानाति, इच्छति, द्वेष्ठि वेत्यादी प्रकारत्वं तृतीयार्थः । तच्च धात्वर्थे फले द्वितीयार्थी वा विशेष्यत्वे निरूपकतासम्बन्धेन अन्वेतीति केचित् । तत्र घट इति घटघटत्वसमवायान् जानातीत्यादिप्रयोगेण विशेserat aarcard न वा द्वितीयार्थत्वं सम्भवति । घट इति नियतार्थस्य धात्वर्थे ज्ञानेऽभेदान्वयेन तादृशज्ञानविशेव्यत्वस्य घटत्वसमवाययोरसंभवात् । विषयत्वं फलतया धात्वर्थो न तु द्वितीयार्थः । भगवान् जानातीत्यादावनुपपत्तेः । तथा च तृतीयार्थः प्रकारत्वं रजतत्वादिप्रकृत्यर्थ -- विशेषितं धात्वर्थे फले, त्रिषयत्वे, व्यापारे ज्ञानादौ वा निरूपकत्वेन प्रतियोगित्वेन वा संसर्गेणान्वेति । रजतत्वप्रकारतानिरूपित पुरोवत्तिविशेष्यताकत्वम् - आक्षेपेण, परिशेषेण मनसा वा मानान्तरेणावगम्यते । विशेष्यत्वस्य द्वितीयार्थतापक्षेऽपि तत्र तृतीयार्थप्रकारत्वस्य निरूपकतासंसर्गेणान्वयो न सम्भवति स्याद्यर्थयोः परस्परान्वयस्याभ्युत्यन्नत्वात् । तृतीयार्थ प्रकारत्वस्य धात्वर्थे ज्ञानादावेवान्वयात, प्रकारता निरूपितविशेष्यताकत्वस्य मानान्तरादेव लाभ इति ।
एवं 'लक्षणस्वरूपप्रमाणादिभिरनुमाने निरूपणीये' इति चिन्तामणित्राक्टो शाब्दबोधस्तदनुकूलव्यापारश्च निरूपेरर्थः । कर्मकृतस्तु विशेष्यो विषयो वार्थः । कर्मप्रत्ययस्थले व्यापारस्य विशेषणतया कर्मप्रत्ययार्थेऽन्वयः । प्रकृते कर्मकृदर्थेकदेशेऽपि विशेष्यत्वे विषयत्वे वा शाब्दबोधस्य फलस्य विशेषणतयाऽन्वयो व्युत्पत्तिवैचित्र्यात् । तथा चात्र तृतीयार्थप्रकारत्वस्य लक्षणादिविशेषितस्य शाब्दबोधेऽन्वयः । प्रकारतानिरूपितविशेष्यताकत्वलाभः पूर्वदेव । हृदयँकदेशे विशेष्यत्वे विषयत्वे वा तृतीयार्थप्रकारत्वस्य