________________
आचार्य श्री विजय | मृतसूरिप्रणीता सरणी टीका.
तस्याः =राश्याः क्रमाब्जे = चरणकमलेऽपि तुलाकोटि :- तुलानां साहश्यगुणानां कोटिः संख्यावर्त्तते 'तुला सादृश्य- मानयोः' इति मेदिनी । अथ च तुलाकोटि: = मञ्जीरः चरणभूषणविशेषः अस्तीतिध्वनिः । पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियामित्यमरः । इत्थं यस्मात् कारणात् अस्यां राज्ञ्यां गुणानां सौशील्यादीनां शतकोटीरासीत् अस्मात् कारणात् । शतकोटिशाली = शतकोटिना = वज्रेण शालतेशोभते तच्छील इन्द्रः, यद्वा शतगुणितकोटिसंख्याकधनाऽधिपतिरपि किमुतान्यः नतः = प्रणतिप्रवणः अभूत् इति मन्ये = उत्प्रेक्षे । शतकोटिः स्वरुः शम्बो दम्भोलिरशनिद्वयो रित्यमरः । कोटि : स्त्री धनुषोऽग्रेऽश्र संख्या भेद - प्रकर्षयोः इति मेदिनी । श्लेषः काव्यलिङ्गं च ।। ७० ।। उच्चैर्दशा स्यान्नु परोपकाराद्, युक्ता तदुच्चैस्तनतास्तनाङ्के । सतां न चात्मम्भरिताकदाचित्,
७५
तनु स्वमध्यं तत एव तस्याः ॥ ७१ ॥ : - तस्याः स्तनाने उच्चैस्तनता युक्ता ( यतः ) परोपकारात् नु उदशा स्यात् ( यतः ) सतां कदाचिद् आत्मम्भरिता न भवति तत एव तस्याः स्वमध्यं तनुं ॥
अन्वयः
व्याख्याः — अवयवान् वर्णयति - तस्याः =राश्याः स्तनाङ्गे= वक्षोजयुगलरूपाऽवयचे उच्चैस्तनता = उच्चैभव उच्चैस्तनः भवार्थे तनुप्रत्ययः तस्य भावस्तत्ता उच्चता औन्नत्यमित्यर्थः युक्ता - समुचिता यतः परोपकारात् = दुग्धरूपस्वधनेन परस्य = स्वभिन्नस्य शिशोः उपकरणात् = शरीरपोषणरूपोपकारजननात् तु निश्चयेन उच्चैर्दशा = उन्नता वस्था उन्नतिरित्यर्थः स्याद् =भवेत् लोकेऽपि परोपकारकरणात् उन्नत्यवस्था भवतीति प्रसिद्धैव । यतश्च सतां सज्जनानां कदाचित् आत्म