________________
७४
महोपाध्याय श्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
'धर्माः पुण्य-यमा-न्याय-स्वभावा-ऽऽचार सोमपा' इत्यमरः । तु= किन्तु अस्याः पूर्वोकराज्याः असामान्यतया अनन्यसाधारणतया त्रिलोक्यां लोकत्रये साम्यदशा-सादृश्यं दुगदालोक्यतां कविभि दुंरतो दृश्यताम् भूयोभूयो विमृश्य यत्किश्चित सादृश्यं परिकल्पयन्तु किन्तु वास्तविकी समानता नास्तीति तत्र कविनां वाग्व्यापारणं विरुद्धमेवेति निष्टकः।।सम्बन्धेऽसम्बन्धरूपातिशयोक्तिरलङ्कारः।।६९॥ गुणाधिरोहः परमस्तु कोटौ,
तस्थास्तुलाकोटिरपि क्रमाब्जे । यस्माद् गुणानां शतकोटिरस्यां,
मन्ये नतोऽस्मात् शतकोटिशाली॥७॥ अन्वयः-परम: गुणाधिरोहः कोटौ तस्याः क्रमाब्जेऽपि तुलाकोटिः (अस्ति) (इथं) यस्मात् अस्यां गुणानां कोटिः अस्मात् शतकोटिशाली नत इति मन्ये
व्याख्या-परमा उत्कृष्टः गुणाधिरोह:-रज्जुसम्बन्धः कोटौ अग्र भागे तुलादण्डस्य भवतीतिशेषः, तस्याः पूर्वोक्तराज्या क्रमानेपादकमले तुलाकोटिरपि-तुलाचिह्नस्य तत्र सत्वात् तदग्रभागोऽपि तस्मात्-तुलाकोटीनां तत्र सत्चात् अत्र कोटिशब्दः शतलक्षसंख्यावाची तथा च एकैकतुलायां कोटिद्वयस्य प्रत्येककोटौ गुणानां सत्त्वात् अस्यां महापुरुषमातरि गुणानां धैर्यादीनां शतकोटि: संख्याऽस्तीति मन्ये-जाने इति कविकल्पना तदेव द्रढयति अस्मात् कारणात् शतकोटिशाली-कोटीश्वरः नतः प्रणतः नह्यशतकोटिशालिनं शतकोटिशाली नमस्करोतीति भावः ॥
अथवा तस्याः पूर्वोक्तराज्याः परमः अनन्यसाधारणः गुणा. धिरोहःगुणोत्कर्षः कोटी-शतलक्षसंख्यायां संख्येयतयाऽस्तीतिशेषः यद्वा गुणाधिरोहः कोटौ वर्तते इति परं-दूरम् अस्तु आस्तां नाम