________________
आचार्यश्री विजयामृतसूरिप्रणीता सरणी टीका. ७३ . प्रामोति वा पुत्रत्वेन तच्छीला शचीरूपेत्यर्थः तद्वैष्णवेन्तस्य-राज्ञः स्त्रभर्तुः वैष्णवे-विष्णुत्वे 'ना विष्णुः पृथिवीपति' रित्युक्त राज्ञो विण्णुकलयाऽवतीर्णत्वेनाभिमताविन्यर्थः कमला लक्ष्मीस्तद्रूपेणे. ति भावः अवतीर्णा गृहीतावतारी । तद्राजयोगे तस्य राज्ञः राजयोगे चन्द्रवाचकराजन् शब्देन योगेन्नृपरूपेतरार्थवाचकतया सम्बन्धे, यद्वा राज्ञः चन्द्रस्य लोकपालान्यतमस्य योगेन्कलयासम्बन्धे रोहिणीचन्द्रभार्या इत्र बहुलब्धवर्णैः बहुभि लब्धवणः कविभिः व्यावर्णनीया-विशेषेण वर्णयितुं प्रशंसितुं योग्या. खलु वाक्यालङ्कारे ॥ राजाप्रभौ च नृपतौ क्षत्रिये रजनीपतौ इति मेदिनी । धीमान् सूरिः कृतिः कृष्टिलब्धवर्णीविचक्षण इत्यमरः उल्लेखालंकारः ॥ अथ च नृपेन्द्रभावे नृपाणामिन्द्रः स्वामी तद्भावे सर्वराजस्वामिभावे जयवाहिनी जयंविजयंबहते प्रामोतीति तच्छीला जयवाहिनी व जयवाहिनीतिमध्यमपदलोपीसमासः संग्रामविजयसंपादिकासेनेवेतिभावः “पती. न्द्रस्वामिनाथार्या इति हैमः" निदर्शनालङ्कारः ॥ ६८ ॥
धर्मः कवीनामुपमा नवीना--
___ऽऽधेयाऽभिधेयार्थसमानभावे ॥ अस्यास्त्वसामान्यतयैवदूरा--
दालोक्यतां साम्यदशा त्रिलोक्याम् ॥६९॥ अन्वयः-अभिधेयार्थ समानभाये नवीना उपमा आधेया[इत्ययं] कवीनां धर्मः तु अस्याः असामान्यतया त्रिलोक्य साम्यदशा दूरादालोक्यताम् ॥
व्याख्या-अभिधेयार्थसमानभावे अभिवेयार्थस्य-वर्णनीयपदार्थस्य (वस्तुनः)समानभावे-तुल्यतायां मादृश्ये कल्पयितव्ये नवी. ना-क्काप्यनाहिततयाऽभिनवा उपमा-सादृश्यम् आधेया योजनीया स्वकाव्ये संघटनी येत्यर्थः इत्ययं कवीनां धर्म: आचारः स्वभावो वा