SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये म्भरिता-स्वोदरमात्रपूरण प्रवणता स्वार्थितेतिभावः न भवति तत एव हेतोः तस्याः स्वमध्यम्-उदरं तनु-कृशं जातमित्यर्थः। स्तनोन्नतत्वं परोपकारफलं तनूदरत्वं सज्जनशिलञ्च शिक्षयतीतिभावः । उत्प्रेक्षा काव्यलिङ्गं चालङ्कारौ ।। ७१ ।। अनल्पतल्पे सुमनो विकल्पे, प्रसुप्तयाऽदर्शिषतोनिशान्ते । स्वप्ना मणिश्रेणिमये निशान्ते, तदा तया नर्तितया व्यवर्ति ॥ ७२ ॥ अन्वयः-मणिश्रेणिमये निशान्ते सुमनो विकल्पे अनल्पतरूपे प्रसुप्तया तथा उन्निशान्ते स्वप्ना अदर्शिश्त तदा नर्तितया ब्यवति ॥ व्याख्या-मणिश्रेणिमये-समन्तान्मणिपंक्तिविराजिते निशान्ते प्रा. सादे सुमनोविकल्पे सुमनसां-पुष्पाणां विकल्पः-विविधकल्पनं विविधा विशिष्टा वा रचनेत्यर्थः यस्मिन् स तस्मिन् तथोक्तरूपे अनल्पतल्पे= अनल्पं महत् तल्पं शय्या तस्मिन् तल्प-शय्याऽष्ट-दारेषु इत्यमरः प्रसुप्तया-शयितया तया प्राग्वर्णित राझ्या उन्निशान्ते-उत्-ऊर्ध्व निशा न्तात-रात्रिशेपात् इत्युनिशान्तं तस्मिन् निशा शेषात्किञ्चिदूर्ध्वमित्यर्थः स्वमाप्रमुप्तविज्ञान विशेषाः अदर्शिषत दृष्टाः तदा-तस्मिन्काले तया राज्या नर्तितया अभिनीतवत्या कल्याणातिशयसंसूचिस्वप्नदर्शनज. न्याऽनन्य सामान्यसान्द्राऽऽनन्दसन्दोहतुन्दिलाऽन्तः करणताऽभिनयं कुर्वत्या व्यवर्ति-अभावि पुष्परचितशयनेशयिता राज्ञी रात्रिशेषे स्वमानवलोक्य हर्षोत्कर्षनिर्भराऽवर्तिष्टेति सरलार्थः । निशान्त-पस्त्य-सदन मित्यमरः। स्वप्नः स्वापे प्रसुप्तस्यविज्ञाने दर्शने पुमानिति मेदिनी॥७२॥ गजादिमश्रीवृषभादिसिंहा, दिमेन्दिरा दाम-मृगाङ्क-सूर्याः ।
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy