________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. ध्वजोल्लसत्कुम्भसरःपयोधि--
विमानरत्नोच्चयवहयोऽमी ॥ ७३ ॥ अन्वयः-गजादिम-श्रीवृषभादि-सिंहादिमे-न्दिरा-दाम-मृगाक-सूर्याः ध्वजो-लसत्कुम्भ-सर:-पयोधि-विमान-रत्नोच्चय-वय इत्यमी स्त्रमाः ॥
व्याख्या--स्वमदृष्टपदार्थान् नामत आचष्टे-गजादिमा गजेषु गजानां वा आदिम-आद्यः प्रधानः हस्तिश्रेष्ठ इत्यर्थः, श्रीकृषभादिवृषभानामादिर्यस्मात्सवृषभादिः शोभायुक्तवृषभोत्तम इत्यर्थः एवं सिंहादिमा श्रेष्ठकेसरी, इन्दिरा लक्ष्मीदेवी. दाम-पुषामाला. मृगाङ्कः चन्द्रः, सूर्य: दिवाकरः, ध्वजा केतनम् , उल्लसत्कुम्भः पूर्णकुम्भः, सर:-तडागः, पयोधिः-समुद्रः, विमानं-देवरथः रत्नोचयारत्नराशिः, वह्निः अग्निः इत्यमी १४ स्वमाः ॥ ७३ ॥ दृश्या अवश्यं भुवनै नमस्यया
जने जनन्यापि जिनस्य चक्रिणः स्वप्नास्तु हर्यश्वमिताः पयोनिधे
बलस्यमात्रप्रथिता यथाविधि ॥ ७४ ॥ अन्वयः-जने भुवनैन मस्यया चक्रिणः जिनस्य जनन्या (चतुर्दश) चक्रिणः जनन्या हर्यश्वमिताः, बलस्यमात्रा पयोनिधेः (मानेन) प्रथिताः स्वमाः यथाविधि अवश्यं दृश्या (जाताः) ॥ ७४ ॥
व्याख्या--जने लोके भुवनैः विष्टपैः त्रिभुवनलोकैरित्यर्थः नमस्यया नमस्करणीयया चक्रिण: धर्मवरचातुरन्तचक्रवर्तिनः जिनस्य अर्हदेवस्य प्रस्तुतकाव्ये वर्णनीयतीर्थकृत्पञ्चकस्येत्यर्थः जनन्यामात्रा उपर्युक्त चतुर्दश (स्वप्नाः) । चक्रिसामान्योपादानात् तन्त्राऽऽवृत्त्यन्यतरेण अर्द्धचकिणोऽपिग्रहणम् तथा च-चक्रिण: अर्द्धचक्रिणा वासुदेवस्य श्रीकृष्णचन्द्रस जनन्या देवक्या हर्यश्वमितान्य