________________
መረ महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाब्ये हरे: सूर्यस्य अश्वाः = घोटकास्तन्मिताः = परिच्छिन्नाः सप्तसंख्यका इत्यर्थः सूर्याश्वानां सप्तसंख्याकत्वात् । तथा बलस्य रामचन्द्र बलदेवस्य मात्रा = जनन्या कौशल्यादेव्या पयोनिधेः = समुद्रस्य मानेनेति शेषः । चतुःसंख्ययेत्यर्थः प्रथिताः = प्रतीताः चत्वार इत्यर्थः स्वप्नाः यथाविधि = यथोचितरीत्या अवश्यं दृश्या जाता इति शेषः । दृश्यन्ते स्मेत्यर्थः ॥ ७४ ॥
स्वप्नान् विलोक्याऽम्बुनिधिप्रमाणान्, स्वच्छाशयैवद्विगुणान् यथार्हम् ।
असंशयानाऽप्यभृशंशयाना,
राज्ञीस्मराज्ञीकृतविश्वरूपा ॥ ७५ ॥
अन्वयः—स्वच्छाशया स्मराज्ञीकृतविश्वरूपा राज्ञी हिगुणान् अम्बुनिधिप्रमाणान् स्वप्नान् यथार्हं विलोक्य असंशयानाऽपि अभृशंशयाना आसीत् ॥ ७५ ॥ व्याख्या -- स्वच्छाशया = स्वच्छ ः = निर्मलः आशय: = अभिप्रायः चित्तं वा वासना वा यस्याः सा तथोक्ता स्मराज्ञीकृत विश्वरूपा अस्म राज्ञा स्मराज्ञा सम्पद्यते तथाकृतं विश्वं येन तत् यद्वा स्मरस्य = कामस्य आज्ञा - शासनं यत्र तत् स्मराज्ञम् अस्मराजं स्मराज्ञं सम्पद्यमानं कृतं विश्व= जगद् येन तत् स्मराज्ञीकृतविश्वं तादृशं रूपं = सौन्दर्यमाकारो वा यस्याः सा तादृशी सकलजगत्कामपारतन्त्र्य कार्यनुपम सौन्दर्येत्यर्थः अतिशय रूपवतीति यावत् राज्ञी = पूर्वोक्ता वामा प्रभृतिः पट्टमहिषी द्विगुणान् = द्विगुणितान् द्विरावृत्तानित्यर्थः अम्बुनिधि प्रमाणान् = सप्तसंख्यकान् द्विरावृत्या चतुर्दश संख्याकानित्यर्थः वासुदेवमाता तु द्विगुणान् प्रकृष्टान् अम्बुनिधिप्रमाणान् कस्यचिन्मते समुद्रस्य सप्ततया तेन तत्प्रमाणान् = तत्परिमितान् सप्त संख्याकानित्यर्थः । बलदेव मात्रा च अम्बुनिधिप्रमाणान् अम्बुनिधिः प्रमाणं येषां तान् 'पयो