________________
आचार्यश्रीविजयामृत सूरिप्रणीता सरणी टीका, धरीभूत चतुः समुद्रामित्यायुक्तः समुद्रस्य चतुःसंख्यतयामिमतत्वेन तत्प्रमाणान् चतुःसंख्याकानित्यर्थः । स्वप्नान यथार्ह स्वस्त्रयोग्यान् विलोक्य दृष्ट्वा असंशयाना-स्वप्नविषयक सफलीभवनसंशयरहिताsऽपि अभृशंशयाना स्वप्नदर्शनान्तरं भूयोऽध्यकृतशयना आसीदिति शेषः शुभशंसिस्वप्नावलोकनात्परं जागरणेन स्वप्नाऽनुरूपफललाभस्याऽवश्यम्भावाभिधानात् । समुद्रस्य सप्तपरिमितत्वे 'सोऽयं सप्तसमुद्रमुद्रितमहीपस्याऽर्जुनस्योद्धतं, क्षिप्त्वा भैरवसंगरेऽतिकठिन कण्ठं कुठारेण यः' इति हनुमन्नाटकस्थपद्यमप्यनुकूलतामावहति ॥ अर्थश्लेषः, तृतीयचरणे यमकम् चतुथै छेकानुप्रासश्चालङ्काराः ॥ ७५ ।। तत्राऽवतीर्णस्त्रिदशावतारी,
सुरः प्रभाभासुर एव कश्चित् । आपन्नसत्वा मणिनेव भूमी,
राज्ञी विरेजे गरभाऽनुभावात् ॥ ७६ ॥ अन्वयः-तन्त्र प्रभाभासुरः त्रिदशावतारी कश्चित् सुरः अवतीर्ण (अभूत) (तदनु) राज्ञी आपन्नसत्वा गरभाऽनुभावात् मणिनाभूमीव विरेजे ॥ ७६ ॥ .
व्याख्या-तत्र-तसिन्काले प्रभाभासुरकान्त्या देदीप्यमानः त्रिदशावतारी त्र्यधिकात्रिरावृत्ताश्च दश परिमाणमस्य स त्रिदशात्रयस्त्रिंशन्मुख्यगणवान् देवस्तस्य तदंशेनेत्यर्थः अवतारी अंशावेशवशेन प्रादुर्भवनशीलः कश्चित् अनिर्दिष्ट स्वरूपः सुरः-दिव्यजीव अवतीर्णः पूर्वोक्तराज्ञी कुक्षौ प्रविष्टः अभूदितिशेषः । तदनु राशीपूर्वोक्ता वामा प्रभृतिर्नुपमहिषी आपन्नसत्वा-गर्भवती सती गरमा नुभावात्-गर्भप्रभावात् मणिना-गर्भस्थरत्नेन भूमिः-वसुन्धरा इव विरेजे-दिदीपे उपमा काव्यलिङ्गं च ॥ आपन्नसत्त्वा स्याद्गुर्विण्यन्तचनी च गर्भिणी इत्यमरः ॥ गर्भस्तु गरभो भ्रूणो दोहदलक्षणं च