________________
महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धान महाकाव्ये
स इत्यभिधानचिन्तामणिः ॥ ७६ ॥ राज्ञे निवेद्याऽऽशयसंशयाप्ति-मेषा निमेषाद्विनयाद्वयनैषीत् ।
८०
जहर्ष हर्षातिशयात्कदम्ब, कदम्बकश्रीर्व पुषानृपोऽपि ॥ ७७ ॥
अन्वयः - एषा आशयसंशयाप्तिं विनयात् राज्ञे निवेद्य निमेवात् ( आशय संशयाऽसिं) व्यनैषीत् (तदनु) हर्षातिशयात् वपुषा कदम्ब कदम्बकश्रीः नृपः अपि जहर्ष ॥ ७७ ॥
व्याख्या -- एषा = राज्ञी आशयसंशयाप्तिं स्वमफलविषयकस्त्रहदयस्थ सन्देहप्राप्ति 'किमेतेषां ( स्वमानां ) फलं भविष्यतीत्यादिरूप शङ्कामित्यर्थः विनयात् = नम्रतापूर्वकं राज्ञे निवेद्य = सूचयित्वा निमेषात् = अक्षिस्पन्दकालेन आशयसंशयाप्तिं स्वामफलविषयकशङ्कासम्ब न्धं व्यनैषीत् = अपनी तवती पुत्रप्राप्तिरेतेषां फलमितिनृपादाकर्ण्य विग तसंशयाऽभूदित्यर्थः । तदनु हर्षातिशयात् = पुत्रप्राप्तिसम्भावनाजन्याऽतिशयानन्दात् वपुषा शरीरेण कदम्बकदम्बकश्रीः = कदम्बानां= नीपकुसुमानां कदम्बकस्य = समूहस्य इव श्रीः = शोभा यस्य स तथोक्तः हर्षोत्कर्षाद्रोमाञ्चाऽञ्चितकलेवर इत्यर्थः नृपः = विश्वसेनप्रभृतिमहीपालोsपि अपना राज्ञी च तत्पक्षे 'कदम्बकदम्बकश्रीः' इत्यस्य कदम्ब - कदम्बकस्येव श्रीर्यस्याः सा तादृशीत्यर्थः । जहर्ष = मुमुदे प्रसन्न - मना अभूदित्यर्थः उपमा, काव्यलिङ्गं दीपकं चाऽलङ्काराः । कदम्बं निकुरुम्बे स्थानीप-सर्षपयोः पुमान् इतिमेदिनी ॥ ७७ ॥ शुचो स चैत्रेऽब्धितिथौ सभाद्रेऽसि तेऽन्त्रिषे पूर्णदिने सचन्द्रे ।