________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. गुणप्रसिद्धेऽवततारदेव--
इच्युत्वा स्वमार्गादयनेऽधिकाये॥ ७८ ॥ अन्वयः-सः देवः स्वमार्योदयने(सति)च्युत्वा पूर्णदिनेसचन्द्रे गुणप्रसिद्ध अधिकाये शुचौ असिते अब्धितिथी (ऋ जी.) । भाद्रे असिते अब्धितिथौ (शान्ति:) । अन्त्रिपे अमिते (द्वादश्याम्) (नेमिः) । सचैत्रे असिते अधितिथौ (पावः) । शुचौ अमिते (षष्ठ्यां ) (वीरः) । अवततार ॥ ७८ ॥ .. . ____ व्याख्या-स:-पूर्वोक्तः त्रिदशाऽवतारी देवा-द्योतनात्मक आत्मा प्रस्तुतकाव्ये वर्ण्यमानस्य तीर्थकृत्पश्चकस्य जीवात्मा इत्यर्थः स्वमार्योदयने स्वस्थ आत्मनः मार्गस्य-शुद्धः सकल कर्मक्षयज. नितात्मशुद्धः उदयने-उदये. यद्वा स्वस्य-स्वकीयस्य मार्गस्य-पथः साधनस्य तीर्थकरनाम-कर्मरूपस्य उदयने तीर्थङ्करनामकर्मोदये इतिभावः सति च्युत्ता-दिव्यशरीरात् च्यवनं प्राप्य पूर्णदिने-पूर्णम्= अक्षीणं दिन यस्मिन् तादृशे. 'एकस्मिन् सावने त्वहि तिथीनां त्रितयं यदा। तदा दिनक्षयः प्रोक्तः' इत्युक्तलक्षणैकसावनदिनवृत्ति तिथित्रयात्मकालवाचकदिनक्षयरहिते इति भावः । सचन्द्रे-अनुकूलचन्द्रग्रहशालिनि. यद्वा 'पूर्णदिनेसचन्द्र' इति समस्तं तस्य 'पूर्णी स्वस्थानस्थिततयाऽविकलो अनुकूलावितिभावः दिनसचन्द्रौ-सूर्याचन्द्रमसौ यस्मिन् तादृशे. रलयोर्डलयोश्चैव श-सयो -वयोस्तथेति शसयो रेकत्वस्मरणात् । तथा गुणप्रसिद्ध आध्यात्मिकादि सकलकलाकला. पकलिततयाऽतिवृष्ट्यादिषड्विधेतिभीतिराहित्येन च शान्त्यादिगुणभूषिते. प्रसिद्धौ ख्यात-भूषितौ इत्यमरः । शुचौ-आषाढमासे असिते-कृष्णपक्षे, अब्धितिथौ समुद्रप्रमिततिथौ चतुर्थ्याम् आषाढ़ कृष्ण : चतुर्थ्यामित्यर्थः (ऋषभजीवः)। भाद्रे-माद्रपदमासे असिते-कृष्णे. अधितिथौ-सप्तमी तिथौ भाद्रकृष्णसप्तम्यामित्यर्थः ( शान्ति०)