________________
८२
महोपाध्यायश्री मेघविजयगणिविरचितेसप्तसन्धानमहाकाव्ये
जीवः) । अन्विषे इषात्-आश्विन मासात् अनु पश्चात् (भवोमासः) अन्विषं तस्मिन् कार्तिकमासीत्यर्थः असि कृष्णे, द्वादश्यामितिशेषः कार्तिककृष्णद्वादश्यामित्यर्थः (नेमि० जी०) । सचैत्रे चैत्रान्विते असितेऽब्धितिथौ चैत्रकृष्णचतुर्थ्यामित्यर्थः (पार्श्वजी.) शुचौ असिते 'षष्ठ्या-मितिशेषः आषाढकृष्णषष्ठयामित्यर्थः (वीर जी०) अवततार-पूर्वोक्ततत्तद्राज्ञीकुक्षौ अवतीर्णः प्रविष्ट इत्यर्थः । पधघटकेषु 'शुचौ, असिते, अब्धितिथौ' इत्येषु पदेषु तन्त्रमावृत्तिर्वा तेन प्रोक्तार्थसङ्घटनम् । शुचिस्त्वयम्-आषाढे इति कृष्णे नीलाऽसितश्याम० इति चामरः ।। ७८ ॥ देवावतारं हरिणेक्षितं प्रागे..
द्राग् नैगमेषी नृपधाम नीत्वा ॥ तं स्वादिवृध्द्या शुभवर्द्धमानं,
सुरोऽप्यनंसीदपहृत्य मानम् ॥ ७९ ॥ अन्वयः-- हरिणा प्राग्ईक्षितं देवावतारं नैगमेषी द्वाक् नृपधाम नीत्वा स्वादिवृध्धा शुभवर्द्धमानं तं सुरोऽपि मानम् अपहृत्य अनंसीत् ॥ ७९ ॥
व्याख्या-हरिणा-सुरेन्द्रेण प्राक्-पूर्वम् ईक्षितं दृष्टं देवाऽवतारंदिव्यांशेनाऽवतीर्णम् प्रस्तुतकाव्ये वर्णनीयं तीर्थकृत्पञ्चकं कृष्णावासुदेवं रामबलदेवं च नैगमेषी-तदभिधानादेवता नयविद्वा-णिग्वा द्राक्-शीघ्रं नृपधाम-पूर्वोक्ततत्तन्महीपसदनं नीत्वा प्रापय्य स्वा. दिवृध्द्या धनादिवृद्या शुभवर्द्धमानं शुभं वर्द्धमानं यस्य यस्माद्वा तं यद्वा शुभेन-(तीर्थकरपक्षे)-श्रुतिमत्यवधिज्ञानलक्षणकल्याणेन वर्द्धमा. नम्-वद्धिष्णुम् । शुभेन-उत्पत्तरारभ्य ज्ञानादिलक्षणक्षेमेण वर्द्धते तादृशं तंवर्णनीयतत्तन्महापुरुष, मानम् अहङ्कारम् अपहृत्य-परित्यज्य सुरोऽपि नैगमेपी अपि ननाम-विनयप्रणतोऽभूत् ।