SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, महावीरपक्षेत्वियान विशेषः-नैगमेषी हिरण्यनैगमेषी देवः नृपधाम-नीत्वा ऋषभदत्तगृहात् सिद्धार्थराजगृहं प्रापय्य खादिवृध्या-गर्भस्थे भगवति ज्ञातकुलस्य धनधान्यादिवद्धनेन हेतुना शुभवर्द्धमानं शुभंजगतां ज्ञातकुलस्य वा कल्याणं वर्द्धते अन्तर्भावि. तण्यर्थतया वर्द्धयतीति शुभवर्द्धमानस्तं, यद्वा उत्पत्तेरारभ्य ज्ञाना. दिभिर्वद्धते इति. गर्भस्थेऽस्मिन् ज्ञातकुलं धनधान्यादिभिर्वर्द्धतेऽ. सादिति वा बर्द्धमानः-शुभः जगतांकल्याणावह सचासौ वर्द्धमानःतदाख्यश्चतिशुभवर्द्धमानस्तं तादृशं तं महावीरदेवमित्यर्थः ॥ ७९ ॥ येनाऽवतारा विहिता हितारा, मेयानते विंशतिभिर्नृपेन्द्रैः॥ श्रद्धादिनासन्नदशाप्रधाना गुणाभिधानाः श्रुतिसंनिधानाः ॥८॥ सम्यग्दृशं प्राप्य यदङ्गभाजा। ये त्रित्रिकोणकभवा अवाप्ताः ॥ त एव संख्यामुपयान्ति तेषां । यतस्तदन्ये गणनास्वगम्याः ॥ ८१॥ अन्वयः--ये अवतारा हितारा न विहिताः तेन मेयाः ( किन्तु ) यत् आजभाजा सदृशं प्राप्य ये त्रित्रिकोणैकभवा अवाप्ता: विंशतिभिः नृपेन्द्रैः (अभि. कासिता:) श्रद्धादिनासन्नदशाप्रधानाः गुणाभिधानाः श्रुतिसंनिधानाः स एव तेषां भवाः संख्यामुपयान्ति यतस्तदन्ये गणनासु अगम्याः ॥ ८. ॥ ८१ ॥ व्याख्या-ये अवताराम्भवाः तारा: आत्मानं जगन्ति च तारयितुं क्षमाः, यद्वा हितारा:-हितम् आत्मनोमोक्षरूपकल्याणम् इप्रति प्राप्नुवन्तीति ते तादृशान विहिताः न संवृत्ताः ते अवतारा न
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy