________________
८४
महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसम्भानमहाकाग्वे
मेयाः परिच्छेद्याः संख्येया इत्यर्थः संख्याकरयोग्या नेतियावत् , यत् किन्तु अङ्गभाजा-तत्तीर्थकृदात्मना सम्यग्दृशं सम्यग्दर्शनं प्राप्य-उपलभ्य सम्यग्दर्शनप्राप्त्यनन्तरमित्यर्थः ये त्रित्रिकोणैकभवाः (त्रिकोणं-ज्योतिषशास्त्रोक्तं लग्नात् नवम पञ्चमस्थानं तेन चेह 'पञ्च, नव' च संख्या गृह्यते, कोणशब्दो विदिग्याची तेन चतुः संख्याग्राह्या तथा च )-व्यधिक त्रिसहितं वा त्रिकोण-नव त्रित्रिकोणद्वादशः तत्सहितम् एकं प्रथम संख्या त्रित्रिकोणकं त्रयोदशेत्यर्थस्तन्मिताः भवाः अवतागः इत्यादिनाथप्रभुणा । त्रायाणां संघ स्त्रिकं-त्रित्वसंख्या. त्रिगुणितं त्रिरावृत्तं वा त्रिकं त्रित्रिकं नवेत्यर्थ. स्तन्मिताः एके श्रेष्ठा, भवाः नेमिनाथस्वामिना । ज्यधिकं त्रियुक्तं वा त्रिकोण नवसंख्या त्रित्रिकोणं-द्वादशेत्यर्थ स्तत्प्रमिता एकेमुख्या भवाः श्रीशान्तिनाथस्वामिना । त्यधिकास्त्रिसहिता वा त्रयः त्रित्रयः षट् तत्सहितः कोण:-चतुःसंख्या त्रित्रिकोण: दशेत्यर्थस्तपरिमिता एके श्रेष्ठा भवाः पार्श्वनाथः स्वामिना । त्रिगुणितं त्रिरावृत्तं वा त्रिकोणं नव संख्या त्रित्रिकोणं सप्तविंशतिरित्यर्थस्तत्परिच्छिन्ना एके प्रधानभूता भवाः श्रीमहावीरस्वामिना च अवाप्ताः गृहीताः विंशतिभिः बहुविंशतिसंख्याकैर्नृपेन्द्रैः-नृपैः-भूतलवार्तमहीपालैः इन्द्रैः शक्रेन्द्रादिभिश्च 'सादरमभिकाविता' इति शेषः कुसिद्धान्तिप्रचारितनानाविधाऽद्यहिंसादिपापकर्माचरणमलीमसमुषीमुषितसज्ज्ञानानां जनानां देशनावचनैरात्महितसाधनज्ञानरत्नोबोधनार्थमभीप्सिता इत्यर्थः । श्रद्धादिनासन्नदशाप्रधाना: श्रद्धादिनान-सभ्यग्दर्शनप्राप्तिदिवसात् आरभ्य आसन्नदशा-मोक्षदशा प्रधाना श्रेष्ठा येषां ते यद्वा श्रद्धादिना श्रद्धा सम्यश्रद्धानं सम्यग्दर्शनम् आदिर्यस्य तेन, सम्यग्दर्शनेन आदिपदग्राह्यसम्यग्ज्ञान-सम्यचारि