SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. त्राभ्यां च, अथवा श्रद्धा-शुद्धिः सम्यग्ज्ञानादिपरिशीलनजनिताऽऽस्मनैर्मल्यं तदादिना आसन्नदशा मोक्षदशा आत्मनोमुक्ताऽवस्था प्रधानम्-उद्देश्यतया मुख्यभूता येषां ते, श्रद्धादिनात् आसन्नदशायां प्रधान-बुद्धिर्येषां ते तादृशाः, गुणाभिधानाः गुणाः सन्त्यसिन्निति गुणम् अनन्तगुणशालि अभिधानं कथन-देशनावचनं येषां ते तथाविधाः श्रुतिसविधानाः श्रुतौ कर्णेन्द्रिये सनिधानं-नैकटयं श्रव्यचरित्रतया येषां ते यद्वा श्रुती-प्रवचने सन्निधानं सामीप्यं. वर्णनीयतया येषां ते तथोक्ताः श्रुतीनां प्रवचनानां सविधाना:शोभनाश्रया इति वा श्रुतीनाम् आगमानां सतां सज्जनानां च निधानाः निधिरूपा इति वा ते निरुक्तरूपा एव तेषां प्रस्तुतकाव्यवर्ण्यमानतीर्थङ्कराणां भवाः संख्या संख्येयतां यद्वा संख्यां विचा• रणां प्रस्तुतकाव्येवर्णनीयतया चर्चामित्यर्थः उपयान्ति प्राप्नुवन्ति. यताभ्यस्माद्धेतोः तदन्ये अनुपदगणितव्यतिरिक्ता भवाः गणनासुःसंख्याने संख्याकरणे अगम्या दुरवबोधाः 'गणनास्वगम्याः' इति समस्तपाठ कल्पने गणनायां सुतरामगम्या इत्यर्थः । कालचक्रस्याऽनादिकालतो बम्भ्रम्यमाणशीलतया भवानामसंख्येयतया इयतयाऽवगन्तुं दुःशका इत्यर्थः ॥ ८० ।। ८१ ॥ एवं श्री आदिदेवप्रमुख मुनिमितार्थाऽवतारैः प्रभाव्ये । काव्ये श्राव्ये सतां स्वे मनसिविहसतां वीक्ष्य दक्षप्रयत्नम्।। अर्हद्भक्तिं चिरायुर्विपुलमनुभवं वैभवं राज्यभाजाम् । दत्तां चित्राङ्गवार्ताऽप्युदयमपि चिरं सतधाऽऽविभवन्ती॥ इति श्रीसप्तसंधाने महाकाव्ये राज्याङ्के महोपाध्यायमेघवि जयगणिविरचिते "अवतारवर्णनोनाम" प्रथमः सर्गः ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy