________________
८६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्लसन्धानमहाकाग्ये
अन्वयः-एवं श्रीआदिदेवप्रमुखमुनिमिताऽर्थाऽवतारैः प्रभाव्ये श्राज्ये काव्ये दक्षप्रयत्नं वीक्ष्यविहसतां सतां स्वेमनसि सक्षधाऽऽनिभदन्ती चित्राङ्ग वार्ता अर्ह. भक्तिचिरायुः विपुलमनुभवं राज्यभाज्ञां वैभवम् उदयमपि च चिरंदत्ताम् ॥८२॥
व्याख्या-उपसंहरति-एवमिति-एवम्-अनेकप्रकारेण श्रीआदिदेवप्रमुख मुनिमिताऽर्थावतारैः श्रीआदिदेवप्रमुखानां श्रीमदृषभस्वामिप्रभृतीनां मुनिमितानांसप्तसंख्यकानाम् अर्थानां तत्तच्छलोकवाच्यार्थभूतानाम् अवतारैः आविर्भावैः यद्वा आदिदेवप्रमुखमुनिभिर्मिता वाच्यतया परिच्छिन्ना अर्थाः अभिधेयानि तेषामवतारैः, श्रीआदिदेवप्रमुखैः कृत्वा मुनिमिताः सप्त अर्थाः वाच्यानि तेषामवतारैरितिवा प्रभाव्ये प्रभावाहे प्रभावशालिनीत्यर्थः । श्राव्ये= व्युत्पित्सुकृते श्रावयितुं योग्ये काव्य-श्रव्यकाव्ये 'सप्तसन्धाना' भिधाने दक्षप्रयत्न- सप्तार्थसङ्घटनविषयकनिपुणोद्यमं वीक्ष्य विहसतां= विस्मय-हर्ष समुद्भूतस्मितशालिनां सतां सभ्यानां स्वेमनसि-निजाऽन्तःकरणे सप्तधा सप्तकारेण आविर्भवन्ती प्रकटी भवन्ती चित्रा. गावात चित्रा अनेकविधा अङ्गवार्ता अवयवार्था अर्हद्भक्ति-जिनानुरागं, चिरायु-चिरजीविताम्, विपुलमनुभवं विशालज्ञानं,राज्यभाजां वैभव-राजसम्पदमित्यर्थः । उदयम् अभ्युदयम् उन्नतिमितियावत् चिरं-बहुकालं दत्ताम् । अपिः समुच्चयार्थः ॥ ८२ ॥
अत्रश्लोकेस्रग्धरावृत्तं म्रनिर्याणांत्रयेणत्रिमुनियतियुता स्रग्धराकीर्तितेयमितितल्लक्षणात् । . इति शास्त्रविशारदकविरत्नभट्टारकाचार्यश्रीविजयामृतसूरीश्वरप्रणीतायां सप्तसंधानमहाकाव्यीय “सरणी'टीकायां
प्रथमः सर्गः समासः ॥१॥