SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री विजयामृतसूरिप्रणीता सरणी टीका. द्वितीयः सर्गः सुधाशनानाभशनान्यभूवं, स्तन्व्यास्तनूजाश्रयणेन सम्यक् । शय्याऽनुकूला प्रसरदुकूला, मूलात्सचूलाभरणादरेण ॥१॥ अन्वयः-सम्यक तनूजाश्रयणेन तन्न्याः सुधाशनानाम् अशनानि अभूवन् (अपरंच) प्रसरढुकूला आमूलात् सचूलाभरणा आदरेण (उपरचिता) शय्याअनुकूला (आसीत्) ॥ १ ॥ व्याख्या-सम्यक् आबाधाराहित्येन तनूजाश्रयणेन-बालस्य गर्भधारणेन तन्व्याः कृशशरीराया राज्याः सुधाशनानां सुधाभुजां देवानाम् अशनानि=आहारा अमृतोपमभोजनानीत्यर्थः अभूवन् । अपरं च प्रसरहुकूला-प्रसरत-आस्तीण दुकूलं-इलक्ष्णवलं सूक्षवस्त्रं वा प्रच्छदपटस्थानीयतया यस्यां सा तादृशी. आमूलात-मूलात्-चरणात् चरणधार्यदेशादित्यर्थः आरभ्य मूलपर्यन्तं वा सचूलाभरणा-चूड़ाभूषणसहिता, अद्मिधार्यस्थानादारभ्य शिरःस्थान पर्यन्तं यथोचित शयनीयोपकरणकलितेतिभावः आदरेण स्नेहेन पुत्ररत्नजननयोग्यताशालित्व हेतु कसम्माननेनेत्यर्थः उपरचितेति शेषः शय्या शयनीयं पल्यको वा अनुकूला स्वाभिरुचिता आसीदिति शेषः अभूवन्नित्यत्र विभक्तिविपरिणामेन अभूद्वा ।। अस्मिन्सर्गे पोड शश्लोकपर्यन्तमिन्द्रवज्रावृत्तम् । स्यादिन्द्रवज्रायदितौजगौग इति तल्लक्षणात् ॥ १ ॥ शची सुचीराणि शुचीत्यमुष्य, ददो तदौचित्यपदं विचित्य ।
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy