________________
८८ महोपाध्यायधीमेषविजयगणिविरचिते सप्तसन्धानमहाकाव्ये सेवातु देवातुलकामिनीभि
श्चक्रे च शक्रेरणया तदीया ॥ २॥ अन्वयः-शची शुत्री इति ( इमां ) तदौचित्यपदं विचिन्त्य अमुष्यै शुचीराणि ददौ (किञ्च) शक्रेरणया देवातुल कामिनीमिः तदीया सेवा चक्रे॥ २॥
व्याख्या-शची-इन्द्राणी शुची-गर्भस्थाऽनुपमपुत्ररत्नशालितया पवित्रेयम् इति हेतोः इमां तदौचित्यपदं तेषां दित्सितसुचीरादीनाम् औचित्यं न्यायं योग्यमित्यर्थः पदम्दानीयस्थानं विचिन्त्य-विचार्य अमुष्यैराश्यै सुचीराणि-मनोहरवस्त्राणि ददौ । किञ्च-शरणया इन्द्रप्रेरणया देवातुलकामिनीभिः अनुपमदेवाङ्गनाभिः तदीया राज्ञी. सम्बन्धिनीसेवा परिचर्या कुमारभृत्या चक्रे कृता यमकालंकारः॥२॥ अपौनरुक्त्याद् बहुमौनभाजा,
राजा समाजात् सहसाऽभ्युपेत्य । तया समं प्रेमवचोऽपिचोयं,
श्रद्धाविशुद्ध्यै निजगादसद्यः॥३॥ अन्वय:--राजा समाजात सहसा अभ्युपेत्य अपौनरुक्त्याद् बहुमौनभाजा तया समं श्रद्धा विशुद्धयै चोधे प्रेमवचोऽपि सयः निजगाद ॥ ३ ॥
. व्याख्या-राजा-पूर्वोक्तो विश्वसेनादिनृपतिः समाजात्-मत्रिसुधी सुहृदादिमण्डलीतः सहसा-अतकितम् अभ्येत्य-राझ्या अभ्यर्णमागत्य अपौनरुक्त्यात्-पुनरुक्तस्यभावः पौनरुक्त्यं तथा न इत्यपौनरुक्त्यं तस्मात् अपुनरुक्तरित्यर्थः दोहदपूरणेच्छया तदभीप्सितवस्तुनामाख्यातुं सकृदुक्तयाऽपीतिभावः बहुमौनभाजा-लज्जया बहुचिरं मौनम्-अभाषणशीलतां भजतीति बहुमौनभाक् तया स्वदोहदप्रकटने हिया तूष्णीम्भावमाश्रयन्त्येत्यर्थः तया-वामाप्रभृतिराया सम-सह श्रद्धा विशुद्धे-श्रद्धा-गर्मिणीमनोरथस्तस्या विशुद्धौ-यथा