________________
८९
आचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. वद्विज्ञाय तत्पूत्यै अन्यथा वैद्यकशास्त्रवचनानुसारेण सन्ततेर्वैगुण्यापत्तिसम्भवात् चोद्यम्=अनुयोज्यं दोहदविषयकप्रष्टव्यांशगर्भितं प्रेमवा श्रीतिवचनं सद्यः सपदि निजगाद । आधिकरणिकादिकार्याद्यथासमयं प्राप्तावकाशो नरेशः राज्ञीमुपेत्य सनिर्बन्धमनुयुक्तयापि त्रपा. भरवशात् स्वदोहददुःखशीलतामभिव्यञ्जितुमपारयन्त्या राज्या सह तदीयदोहदबुभुत्सया चटुवचनैरालापमकापीदिति सरलार्थः । 'दोहदं दौ«दं श्रद्धा लालसा' इत्यभिधानचिन्तामणिः । अतर्किते तु सहसा इत्यमरः॥ ३ ॥ चान्द्री क्रियां चक्रिरुपेत्य चान्द्री,
सौरी च गौरी दधिरात्मदर्शम् ॥ शैषी च योषाभरणाद्यनैषीत् ,
तस्या उपास्याविधिरेवमासीत् ॥४॥ अन्वयः-चान्द्री उपेत्य चान्द्री क्रियां चक्रिः सौरी गौरी च (उपेत्य) भारमदर्श दधिः शैषी योषाऽऽ भरणादि अनधीत् एवं तस्या उपास्याविधिगसीत् ॥ ४ ॥
व्याख्या-चान्द्री-चन्द्रशक्तिः उपेत्य-राज्ञीसमीपमागत्य चा. न्द्रीं-चन्द्रसम्बन्धिनी क्रियां-कार्यम् दिनानुदिनशरीर-लावण्यााप चयलक्षणं चक्रि:-कृतवती. सौरी गौरी च-तत्तन्नामिका देवी उपेत्य आत्मदर्श-दर्पणं दधि:-धारितवती । शेषी-नागकन्या योषाभरणादि-स्त्रीजनधारणयोग्यभूषण-वसनादिकम् अनैषीत्-उपानीतवती । एवंरूपः तस्याः-राज्याः उपास्याविधिः- देवकन्या नागकन्यादिकतृक परिचर्या प्रकार आसीत् अनुप्रासः ॥ ४ ॥ उच्चामरीवाचमनेन चामरी
द्वयींदधानाभजतेस्म चामरीम् ।