________________
महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धान महाकाव्ये
सेवारसान्नाप्सरसस्तदन्तिकं, जहुर्मुहुर्भक्तिमुहूर्त भावनैः ॥ ५ ॥
अन्वयः -- उच्चामरीव अमरी चामरीं द्वयीं दधाना आचमनेन ( तां) भजतेस्म अप्सरसः सेवारसात मुहुर्भक्तिमुहूर्त भावनैस्तदन्तिकं न जहुः ॥ ५ ॥ व्याख्या – उच्चामरीत्र = चमरी चामराख्यव्यजनोपयोगि पुच्छशालि महिषाकृतिक मृगविशेषस्त्रीजातिः सैव चामरी उत्-उत्कृष्टा चामरी उच्चामरी सेव अमरी - देवाङ्गना चामरी - चामर - चमरपुच्छकृतव्यजनसम्बन्धिनीं द्वयीं- द्वितयीं द्वित्वसंख्यां चामरयुगल मित्यर्थः दधाना धारयन्ती आचमनेन - मुखादिप्रक्षालनेन वैधकर्मा - दिना वा लक्षणया आचमनक्रिया सम्पादनेनेत्यर्थः भजते स्म - सेवतेस्म । अप्सरसश्व सेवारसात्-परिचर्याजनितानुरागात् मुहु:-अभीक्ष्णं भक्ति मुहूर्त भावनैः - भक्तीनां - गर्भिण्युचितोपचाराणां मुहूर्तेअल्पकाले मुहूर्त्तं मुहूर्तमित्यर्थः भावनैः - चिन्तनैः प्रतिक्षणं गुर्विण्युचितोपचारचिन्तन - - सम्पादनादिनेत्यर्थः तदन्तिकं - तस्याः - राज्या अन्तिकं - सदेशदेशं न जहुः - परितत्यजुः । अनुप्रासः ।। ५ ।। सांकर्य कार्यं प्रविचार्य वार्य,
९०
विरोधमुत्सार्य समर्त्तवस्ते ||
सामान्यमाधायसमा-धिसाराधिकारमीयुर्भुविनिर्विकाराः || ६ ||
अन्वयः -ते समर्त्तवः सकर्मकार्य वार्यं विचार्य विरीधम् उत्सार्य सामन्यमाधाय सुविनिर्विकाराः समाधिसाराधिकारमीयुः ॥ ६ ॥
व्याख्या - ते = प्रसिद्धाः समर्त्तवः = समे= सर्वे ऋतवः = 'शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्विमः । माघादिमासयुग्मैस्तु ऋतवः षट्क्रमादिमे' इत्युक्तरूपाः सांकर्यकार्य स्वस्वकार्य सांकर्य, वसन्ते