________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. शिशिरकार्य शिशिरे च वसन्तस्येत्यादिरूपं वार्य-परित्याज्यं विचार्य विमृश्य विरोधं च उत्सार्य-परिहत्य सामान्यं समानतां तुल्यवृत्तिस्वामित्यर्थ आधाय स्वीकृत्य समाधिसाराधिकार-समाधिना नियमेनव्यवस्थया सारं-न्याय्यं स्वस्वोचितमित्यर्थः अधिकार कार्यकारित्वम् यद्वा-समाधिसारं-शान्तिप्रधानम् अधिकर=नियोगम् ईयुः प्राप्तवन्तः । ऋतवः कीदृशाः १ भुवि-भूतले निर्विकारा:-नि:-न सन्ति विकाराः व्याधयो येभ्यस्ते तथोक्ताः रोगाद्युपद्रवाऽजनकाः॥ समाधिनियमे ध्याने नीवाके च समर्थने इति मेदिनी, सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु इत्यमरः ॥ ६ ॥
काचित्तु साचिव्यमलक्रियायां,
__ दधौ सुरी स्नानविधानतोऽन्या। काचित् समस्या धरणात्समस्याः,
___ पप्रच्छ काप्यच्छधियाऽप्यतुच्छा ॥ ७॥ अन्वयः- काचित् सुरी अलं क्रियायाम् अन्या (सुरी) स्नानविधानतः काचित् (सुरी) समस्या धरणात् (तस्याः) साधिव्यं दधौ कापि अतुच्छा अच्छधिया समस्याः पप्रच्छ ॥ ७ ॥
व्याख्या-काचिव अनिर्दिष्टनाम्नी सुरी-सुरीबाचरतीति सुरीयतीति सुरी देवांगनेव देवी परिचारिका अलङियायां असाधनकर्मणि अन्या-अपरा स्नानविधानतः स्नानादिकर्मसम्पादनविधी सार्वविभक्तिकस्तसिः। काचित् सुरी समस्या धरणात् गूढाभिप्रायधारणात् साचिव्य-साहाय्यं दधौ 'तस्याः' इति शेषः कापि अतुच्छा अहीना-उत्कृष्टा गूढाशयेति यावत्-अच्छधिया=निर्मलाशयेन समस्या: गूढामिप्रायकविषयान् यद्वा राझ्या विदुषितरत्वात् समस्या संक्षेपेणोक्तस्य श्लोकपादादेः परकृतेन स्वकृतेन वावशेषेण भागा