________________
.९२ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्लसन्धानमहाकाव्ये न्तरेण सङ्घटनारूपां गूढाभिप्रायप्रहेलिकादिरूपां वा कविक्रियां पप्रच्छ-अनुयुयोज ॥ ७॥ पात्राण्यमा ननृतुः पदे पदे,
समुन्ननादाऽऽनकदुन्दुभिर्मुदे। घनाधनस्य भ्रमतो वदावदे,
मयूरवर्गे नटनान्निसर्गतः ॥ ८॥ अन्वयः-आनकदुन्दुभिः मुदे समुन्ननाद अमाः पात्राणि पदेपदे ननृतुः, यनाधनस्य भ्रमतः वदावदे मयूरवर्गे निसर्गतः नटनात् ॥ ८ ॥
व्याख्या-आनकदुन्दुभिः आनका प्रोत्साहकः दुन्दुभिः-देपवाद्यविशेषः मुदे-सुर-नरादीनां प्रीत्यै समुन्ननाद-दध्यान अतएव अमाः देवाः पात्राणि नाटयार्थाऽभिनयशीलनायकादिरूपाः सन्तः पदेपदे प्रतिस्थानं नन्तुः-नृत्यं कृतवन्तः । यद्वा अमाः पात्राणि-दिव्यनाट्यार्थाभिनेतन् गन्धर्वाद्यप्सरादीन् वा ननृतुः अन्त. भांवितण्यर्थतया नतैयामामुरित्यर्थः तथाहि-धनाधनस्यन्वर्युकमेघस्य 'वर्षकान्दो धनाधनः' इत्यसरः भ्रमतः प्रावृषि नभसि सञ्चरतः सतः वदावदे-मुहुः केकामातन्वाने मयूरवर्गे-मयूरसंहतो निसर्गतः सभावादेव नटनात् नर्तनात् नृत्यप्रवणत्वदर्शनादित्यर्थः ननृतुरि त्यर्थः । अत्रोदात्तालंकारः ॥ ८॥ दिवानिशं केलिकलाकलापै,
रालीषु तालीविधिनोपजापैः । सत्याः सुदत्या दिवसाः सुखेन,
सुर्यः सतूर्या गमयाम्बभूवुः ॥९॥ अन्वयः---दिवानिशम् आलीषु केलिकलाकलापैः (तथा) तालीविधिना उपजापैः सुदत्याः सत्याः (राज्याः) दिवसाः सतूर्याः सुर्यः सुखेन गमयाम्बभूवुः