________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका,
९३
व्याख्या-दिवानिश-रात्रिन्दिवम् आलीषु सखीषु केलिकलाकलापैः क्रीडाविधानः नृत्यादिकलाविधानश्च तथा तालीवि धिना-तालीदानेन उपजापैः-उपांशुजपैः रहस्याख्यानैर्वा सुदत्या:शोभनदशन (दन्त) शालिन्याः सत्याः राझ्याः दिवसाः दिनानि सतूर्याः वाद्यविशेषसहिताः सुर्य:-देव्यः तत्तुल्याः परिचारिका वा सुखेन अक्लेशेन गमयाम्बभूवुः यापयामासुः ॥ ९ ॥ निश्चक्रमुः शक्रमुदा तदेवं,
मासा विलासाऽतिशयान्नवापि । समन्विताः सप्तदिनैः पुरोधः,
प्रजप्तमन्त्रैर्मुदितावरोधम् ॥ १० ॥ अन्वयः---तदेवं शकमुदा (उपलक्षिताः) सप्तदिनैः समन्विताः नत्रापि मासा: विलासाऽतिशयात् पुरोधः प्रजप्तमन्त्रैर्मुदिताऽवरोधं (यथास्थात्तथा) निश्चक्रमुः ।
व्याख्या-तदेवं शक्रमुदा-इन्द्रहर्षेणोपलक्षिताः सप्तदिनः समन्विताः समेताः नवापि मासाः विलासातिशयात्-आनन्दातिरेकात् विविध विनोदातिरेकेण वा पुरोधसा-पुरोहितेन प्रजातानि-असकदुच्चारितानि मन्त्राणि शान्तिमन्त्राणि तैः मुदितावरोध-मुदितः हृष्टः अवरोधा-अन्तः पुरजनो यस्मिन् कर्मणि तद्यथास्यात्तथा निश्चक्रमुः= निःक्रान्ताः व्यतीता इत्यर्थः ॥ १० ॥ शान्तासु सर्वासु दिशासु रेणु
न रेणुबाधां तु मनाग् व्यधासीत् ॥ दध्वान देवाध्वनि दुन्दुभीनां,
नादः प्रसादो नभसोऽम्भसोऽभात ॥११॥ अन्वयः-सर्वासु दिशासु शान्तासु रेणुः मनाक् रेणुबाधा न व्यधासीत् ।