________________
९४
महोपाध्यायश्रीमेघविजयगणिविरचितेसप्तसन्धानमहाकाव्ये
देवाध्वनि दुन्दुभीनां नादः दध्वान नभसः प्रसादः अम्भसः अमात् (अम्भसः प्रसादो नभसोऽभात् । नभसो ऽम्भसश्च प्रसादोऽभात्) ॥ ११ ॥
व्याख्या सर्वासु प्राच्यादिषु दिशासु शान्तासु-प्रसन्नामु सतीषु रेणुः=धूलि मनाक्-अल्पमात्रामपि रेणुबाधां धूलीवर्षणादिजनितदुःस्थिति न व्यधासीत् नाकार्षीत् । किञ्च देवावनि आकाशे दुन्दुभीनांदेववाद्यविशेषाणां नादः दध्वान ध्वनिरजनिष्ट नभसः आकाशस्य प्रसादःनिर्मलत्वादिरूपः अम्भसः अभात् जलस्याभूदित्यर्थः, अम्भसो वा प्रसादः नभसोऽभात् । यद्वा नभसः अम्भसश्च प्र. सादोऽभात् उभे अपि प्रसन्ने अभूतामित्यर्थः । निदर्शनालंकारः॥११॥ ग्रहेषु शुद्धोच्चकृताग्रहेषु,
लोकम्पृणे प्राप्तघृणे ऽनृणे च ॥ लोके पुनश्चित्रकृताऽवलोके,
भावस्तदाऽभूत सुकृतानुभावः ॥ १२ ॥ अन्वय:--ग्रहेषु शुद्धोच्चकृताग्रहेषु (सत्सु) लोके (च) पुन: लोकम्पृणे प्राप्तणेऽनृणे च चित्रकृतावलोके च ( सति ) तदा सुकृतानुभावः भावः ( लोकानाम् ) अभूत् ॥ १२ ॥ ___व्याख्या-ग्रहेषु-सूर्यादिसप्तग्रहेषु शुद्धोचकृताग्रहेषु-शुद्धे निर्दोषे उच्चे-उच्चस्थाने मेषादितुङ्गस्थाने कृतः आग्रहः सम्यस्थितिर्यैस्ते शुद्धोचकृताग्रहास्तेषु तादृशेषु यद्वा शुद्धाः सूर्यगत्वादिवैगुण्यरहिताः ते च ते उच्चकृताग्रहाश्चेति शुद्धोच्चकृताग्रहास्तेषु तादृशेषु सत्सु अत्रेदंबोध्यम् 'अर्काधुच्चान्यजवृषमृगकन्याकमीन दिगदहनाष्टाविंशतितिथीनक्षत्रविंशतिमिः ॥ ११ ॥ स्त्रोच्चतः सप्तमंनीच. मिति आरम्भसिद्धौ राशिद्वारे । इति सूर्यादीनां सप्तानां ग्रहाणां मेपवृषभादयोराशयो यथाक्रम मुचस्थानांभि. स्व स्व तुङ्गापेक्षया सप्तम