________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. स्थानानि च नीचानि. तत्रोच्चेष्वपि दशमादयो राशित्रिशांशा यथाक्रममुच्चेषु परमोच्चा नीचेषु परमनीचा इति तदर्थः ! अत्रांश स्त्रिंशोभागः । यथाह नारदः–त्रिंशद्भागात्मकं लग्नम् इति । मूर्यमत्यासत्तिग्रहाणामस्तमयो नाम | तदुक्तं लघुजातके - रविणाऽस्तमयो योगो. वियोगस्तूदयोभवेत्' इति । तेच स्त्रोच्चस्थाः फलन्ति नास्तगा नापि नीचगाः । तदुक्तं राजमृगाङ्के–स्वोचे पूर्ण, वर्लकेऽध, सुहृद्धे पादं, द्विड्भेऽल्पं, शुभंखेचरेन्द्रः । नीचं स्थायी नास्तगो वा न किञ्चो. त्पापं नूनं स्वत्रिकोणे ददाति । इति अत उक्तं 'शुद्धोच्चकवाग्रहेब्विति। एवं च सति यस्य जन्मसमये पश्चादिकाग्रहाः स्वोच्चास्थाभवन्ति स एव तुङ्गोभवति । तदुक्तं कूटस्थीये-सुखिनः प्रकृष्टकार्या राजप्रति. रूपश्च राजानः । एक द्वि-त्रि चतुर्थी जायन्तेऽतः परं दिव्याः। इति' लोके–जने च लोकम्पृणे जनतानन्दविधायिनि, प्राप्तघृणे-दीनाऽना. थजनविषयकाऽनुग्रहशालिनि अधिगतावद्यकर्मकारुण्ये वा 'कारुण्यं करुणा घृणा इत्यमरः' । अनृणे-समृद्धिसम्पन्नतयाऽऽधमर्ण्यरहिते, चित्रकृताऽवलोके सचित्रीकृतावलोके च सति सुकृताऽनुभावः= सुकृत-पुण्यं तञ्जनककआदीत्यर्थः अनुभावयति-चिन्तयतीति स तादृशः भावः स्वभावः अभिप्रायो वा चेष्टा वा तदा लोकानामितिशेषः अभत् । अन्त्यानुप्रासः भावः सत्ता स्वभावाऽ-भिप्रायचेष्टात्म जन्मसु इत्यमरः ॥ १२ ।। आरोग्य-भाग्या-ऽभ्युदया जनानां,
प्रादुर्बभूवुर्विगतैजनानाम् ॥ वेषाविशेषान्मुदिताननानां,
प्रफुल्लभावाद्भुवि काननानाम् ॥ १३ ॥