________________
९६
महोपाध्यायधीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
___अन्वयः-भुवि विगतैजनानां वेषाविशेषान्मुदिताननानां जनानां ( विगतैजनानां ) प्रफुल्लभावात् काननानां (च) आरोग्य-भाग्या-ऽभ्युदयाः प्रादुबभूवुः ॥ १३ ॥ ___ व्याख्या-भुवि भूतले, विगतैजनानां विगतं-निवृत्तम् एज नं-कम्पनं परिपन्ध्यादिजनितत्राससम्भृतगात्रादिकम्पो येषां ते यद्वा विशेषेण गतं प्राप्तम् एजनं कम्पः शङ्गरादिरसाऽनुगुणः सात्विकभा. वविशेषो यैस्ते तेषाम् तत्रत्यानां जनानां रसिकत्वाच्छृङ्गारससमुद्भव एवं कम्पो न वैरिप्रभवोऽपि समजनिष्ट । काननपक्ष-विगतम् एजनं= महावातादिजनितो महाकम्पो येषां ते तादृशानां यद्वा विभिः प. क्षिभिः गतं प्राप्तम् एजनं कम्पो यैस्ते तेषां तथोक्तानाम् । वेषाविशेषात् वेषस्य नेपथ्यस्य भूषणवसनादिभिरात्मप्रसाधनस्य आ= सर्वतोभावेन विशेषात् अतिशयात् मुदिताननानाम् प्रसन्नमुखानाम् यद्वा बेषस्य बसनाऽलङ्कारणादिना निजपरिष्करणस्य अविशेषात साधारणात् मण्डनां--ऽशुकादिसामान्ये सत्यपि मुदिताननानाम्प्राकृतसौन्दर्यसम्पन्नतया सदा प्रसन्नवदनानाम् जनानां लोकानाम् । प्रफूल्लभावात्मकरन्दविन्दमिलिन्दगुज्जित-पुष्प-पल्लव-फलसमृद्धतया विकसितत्वात् काननानां बनानां च आरोग्य-भाग्या-ऽभ्युदया: आरोग्यं नैरुज्यं, भाग्यम् अनुकूलदेव (त्व)म् अभ्युदयः धनधान्यादिवृद्धिः, काननपक्षे च-आरोग्यं (रुजन) रोगः=भञ्जनमामर्दनम् स नास्त्यस्यासौ अरोगस्तस्यभावस्तथा ) हस्त्यादिकतृकशाखाभङ्ग समूलोन्मूलनादिराहित्यम्, भाग्य-शोभनाधिपतिशालितया. अभ्यु. दयः फलपुष्पादिसमृद्धिः प्रादुर्बभूवुः प्रकटीबभूवुः । अन्त्याऽनुप्रासः तुल्पयोगिता श्लेषश्चालङ्काराः ॥ १३ ।। प्रीत्या विशिष्टा नगरेषु शिष्टाः,
काराविकारा न कृताधिकाराः ।