________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. बाधा नचाऽधान्नरकेऽसुरोऽपि।
परोऽपि नारोपितवान् प्रकोपम् ॥१४॥ अन्वयः-नगरेषु शिष्टा: प्रीत्या विशिष्टाः, कृताधिकाराः काराविकारा न (आसन्) नरके ( नैरयिकजीचेषु ) असुरोऽपि बाधा नाऽधात् । परोपि प्रकोप ( कस्यापिविषये ) नारोपितवान् ॥ १४ ॥
व्याख्या-नगरेषु शिष्टाः तत्तत्कर्मणि नियोजिता अधिकारि. जनाः सञ्जना वा प्रीत्या हर्षेण विशिष्टा:-युक्ताः, कृताधिकारा:कारागाराधिकृतपुरुषाः काराविकाराः कारा-बन्धनालयः लक्षणया तद्वद्धपुरुषास्तद्विषये विकारः प्रकृतेरन्यथाभावः क्रुद्धत्वचण्डत्वादिरूपो येषां ते तथाविधा न आसन्निति शेषः । नरके-रत्नप्रभादौ 'नैरयिकजीवेषु' इति शेषः असुरोऽपि-परमाधार्मिकोऽपि बाधा नारकीयपीडाः न अधात् । पर: अन्यः शास्त्रवादिरपि प्रकोप प्राचण्डयं नारोपितवान् कस्यापिविषये नोपयोजितवान् सोऽपि प्रशान्तस्वभावोऽभूदितिभावः। वृत्त्यनुप्रासः, दीपकम् ,अर्थापत्तिश्चालङ्काराः।. कारा स्याबन्धनालये इत्यमरः ॥ १४ ।। मृगेङ्गसारेऽर्कविदोः प्रभादौ,
कोंदये देवगुरोः सुधांशोः। शनेस्तुलाभे वृषभे सुकाव्ये,
तमोव्ययेऽभूजिनदेवजन्म ॥ १५ ॥ अन्वय:--- अङ्गलारे मृगे अर्कविदोः प्रभादौ कर्कोदये देवगुरोः सुधांशोः शनेः तुलाभे सुकाव्ये वृषभे व्यये तमः जिनदेवजन्म अभूत् ॥ १५ ॥
व्याख्या- अङ्गसारे तनुभावे मृगे मकरे अर्कविदोः सूर्यबुधयोः स्थितयोः प्रभादौ प्रकृष्टश्चासौभश्चेति प्रभः सआदिर्यस्य तस्मिन् प्रभादौ प्रकृष्टनक्षत्रादौ कर्कोदये कर्कराशी देवगुरोः बृहस्पतेः सुद्यांशोश्चन्द्रस्य