________________
९८
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाठ ये
स्थितिसत्वे सतीतिशेषः तुलाभे तुलाराशौ नक्षत्रे शनेः शनैश्चरस्य वृषभे वृषनक्षत्रे सुकाव्ये शुक्रे व्यये व्ययस्थाने तमः राहुः एतत्समये जिनदेवजन्म जिनेन्द्राणां जनिः अभूत् अजनिष्ट ।। १५ ॥
ज्येष्टेऽसिते विश्वहिते सुचैत्रे,
___ वसुप्रमे शुद्धनभोऽर्थमेये । साङ्के दशाहे दिवसे सपोषे,
जनिर्जिनस्याऽजनि वीतदोषे ॥ १६ ॥ अन्वयः-बीतदोषे, ज्येष्ठेऽसिते विश्वहिते (शान्तेः) । सुचैत्रेऽसिते वसुप्रमे (ऋषभस्य) । शुद्धनभोऽर्थमेये (नेमे:) । सपोषेऽसिते दशाहे (पार्श्वस्य) । सुचैत्रे सिते विश्वहिते ( वीरस्य ) सुचैत्रे सिते साङ्के ( रामस्थ ) । (भादे) असिते वसुग्रमे (कृष्णस्य) जिनस्य जनिः अजनि ॥ १६ ॥ ___ व्याख्या-वीतदोषे वीता: अपगताः दोषा: ग्रहवैगुण्यादिरूपा यत्र तादृशे. ज्येष्ठेऽसित कृष्ण पक्षे विश्वहिते-त्रयोदशीतिथौ ज्येष्ठकृष्णत्रयोदश्यामित्यर्थः श्रीशान्तिनाथाख्यस्य । मुचैत्रे चैत्रमासे असिते, वसुप्रमे अष्टमीतिथी चैत्र कृष्णाष्टम्यामित्यर्थ ऋषभनाम्नः । शुद्धनभोऽर्थमेये-शुद्धस्य-शुभ्रस्य यद्धिष्णुचन्द्र चन्द्रिकाधवलितस्य नमस: श्रावणमासस्य अर्थमये-पञ्चमीतिथी श्रावणशुक्लपञ्चम्यामित्यर्थः श्रीनेमिनाथाभिधानस्य । सपोषे=पौषमासेऽसिते, दशाहे= दशमीतिथौ पौषकृष्णदशम्यामित्यर्थः श्रीशार्श्वनाथनामधेयस्य । सुचैत्रे सिते शुक्लपक्षे विश्वहिते चैत्र शुक्लत्रयोदश्यामित्यर्थः श्रीवीरविभुस्वा. मिनः । सुचैत्रे सिते-शुक्लपक्षे साङ्के-दिवसे अङ्कमिततिथौ नवमीतिथौ चत्रशुक्ल नवम्यामित्यर्थः श्रीरामचन्द्रबल देवस्य । असिते वसुप्रमे 'भाद्रे' इति शेषः भाद्रकु गाष्टम्यामित्यर्थः कृष्णवासुदेवस्य । जिनस्य-रागादिजेतत्वात् तच्छीलस्य जनिःजन्म अजनि-अभूदित्यर्थः।।