________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. ९९ अत्र 'असिते, विश्वहिते, सुचैत्र वसुनमे इत्येतेषु पदेषु 'सिते' इतिच्छेदपक्षे तत्र च तन्त्रमावृत्तिा तेनोक्तार्थ लाभः ॥ १६ ॥
उक्तार्थमेव व्यासेन स्पष्टमाह
मधावष्टम्यां तन्नवमदिवसे विश्वमहितेऽसिते ज्येष्ठे पञ्चम्यहनिनभसो भाद्रबहुले ॥
तदष्टम्यां पोषे दशमदिवसे प्रौढविभवैमहोत्साहे पूर्व प्रसरति विभोर्जन्मसमयः ॥१७॥
अन्त्रय:--पूर्व प्रौढविभवः महोत्साहे प्रसरति सति. मधौ असितेऽष्टम्याम् ( ऋषभस्य ) । ज्येष्टे असिते विश्वमहिते ( शान्तिनाथस्य ) । नभसः पञ्चम्यह नि सिते ( नेमिनाथस्य ) । पोषेऽसिते दशमदिवसे (पार्श्वस्य)। मधौ मिते विश्वमहिते (वीरस्य) । मधौ सिते तन्नवमदिवसे (रामस्य) । भागबहुले तदष्टम्यां (श्रीकृष्णस्य) । विभोर्जन्मसमयः (आसीत) व्याख्या-पूर्व-जननात्प्राक् प्रौढ़ विभवः प्रौढगर्भवासादारभ्यानुदिनमुत्तरोत्तरं प्रवृद्धः, यद्वा निपुणैः समस्तजनताभरणक्षमैरित्यर्थः विभवः धनधान्यसमृद्धिभिः महोत्माहे-प्रभूतोत्सा हे सर्वजनानामिति शेषः प्रसरतिव्याप्नुवति सति । मधौ-चैत्रमासे. असित-कृष्णपक्षे अष्टम्याम् अष्टमीतिथौ चैत्रकृष्णाष्टम्यामित्यर्थः ऋषभस्वामिनः । ज्येष्ठे-वैशाखमासाव्यवहितोत्तरवर्तिमासे, असिते, विश्वमहित-त्रयो दशीतिथौ ज्येष्ठकृष्णत्रयोदश्यामित्यर्थः शान्तिनाथस्य । नभसः= श्रावणमासस्य सिते शुक्लपक्षे पञ्चम्यहनि पञ्चमीतिथौ श्रावणशुक्लपञ्चम्यामित्यर्थः नेमिनाथस्वामिनः. पोषे सहस्यमासे मार्गशीर्षमासाव्यवहितोत्तरवर्तिमासे असिते-शुक्लेतरपक्षे, दशमदिवसे-दशमीतिथौ पौषकृष्णदशम्यामित्यर्थः पार्श्वनाथस्य । मधौ सिते-कृष्णेतरपक्षे विश्वमहिते चैत्र शुक्लत्रयोदश्यामित्यर्थः श्रीवर्द्धमानस्वामिनः ।