________________
१०. महोपाध्यायधीमेघविजमगणिविरचिते सप्तसन्धानमहाकाम्ये •rrrrrrrrrrrrrrd मधौ सिते-शुभ्रपक्षे तनवमदिवसे-नवमीतिथौ चैत्रशुक्लनवम्या. मित्यर्थः श्रीरामचन्द्रबलदेवस्य । भाद्रबहुले भाद्रस्य-भाद्रपदमा. सस्य बहुले कृष्णपक्षे तदष्टम्यां भाद्रकृष्णाष्टम्यामित्यर्थः श्रीकृष्ण वासुदेवस्य । विभोप्रभोः जन्मसमया-उत्पत्तिकालः आसीत् । अत्रापि 'मधौ, विश्वमहिते, असिते' इत्येतेषु पदेषु 'सिते' इतिच्छेदकल्पने तत्पदे च तन्त्रमावृत्तिा तेनोक्तार्थलाभः । स्थाच्चैत्रे चैत्रिकोमधुः इति. श्रात्रणे तु स्थानभाः श्रावणिकश्च सः इति. कृष्णे नीला-सित-श्याम-काल-श्यामल-मेचकाः इति. शुक्ल-शुभ्र-शुचिश्वेत-विशद-श्येत-पाण्डराः । अवदातः सितोगौर इति. स्युनभस्य प्रौष्ठपद-भाद्र-भाद्रपदाः समा इति. पौषे तैष-सहस्सौ द्वौ इति चामरः । बहुल: कृष्णपक्षेऽनों ना. त्रिषु प्राज्य-कृष्णयोः । मेदिनी ।। अत्र श्लोके शिखरिणीटत्तम् रसैरुद्रैच्छिन्ना यमनसभलागः शिखरिणीति लक्षणात् ॥ १७ ॥ मधुशुचिपरभाद्रे, सन्नभस्संनियोगे
वसुनवनिधिविश्वानन्दिपञ्चाङ्कितेऽह्नि । सहपरदशमानाद्युत्सवे जायमाने
ऽजनि रजनिविराम जन्म हर्षाजनन्याः ॥१८॥
अन्वयः- मधुशुचिपरभाद्रे सन्नभः सन्नियोगे वसुनवनिधिविश्वानन्दि. पंचाङ्कितेऽहि सहपरदशमानाद्युत्सवे जायमाने सति जनन्याः हर्षात् रजनिविरामे जन्म भजनि ॥ १८ ॥
___ व्याख्या--मधुशुचिपरभाद्रे मधुश्चैत्रः शुचिपरः शुचिराषाढ़ा परोऽग्रे यस्मात् स शुचिपरो ज्येष्ठः भाद्रः भाद्रमासः तस्मिन् सन्नमः सन्नियोगे सन् शोभनश्वासौ नभसः श्रावणस्य सन्नियोगः संबन्ध तस्मिन् तथोक्ते वसुनवनिधिविश्वानन्दिपंचांकितेहि तथा च मधो