SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री विजयामृतसूरिप्रणीता सरणी टीका. चैत्रस्य वस्वंकिते चैत्रकृष्णाष्टम्यां श्रीमदृषभस्वामिनः एवं चैत्रशुक्ल नवसंख्यांकितेऽह्नि रामचन्द्रस्य शुचिपरे ज्येष्ठे विश्वानन्दि त्रयोदइयंकिते ज्येष्ठ कृष्ण त्रयोदश्यां शान्तिनाथस्य भाद्रे वस्वं कितेऽहि भाद्रकृष्णाष्टम्यां कृष्णस्य सन्नभः सन्नियोगेपञ्चांकिते श्रावणशुक्लपञ्चम्यां श्री नेमिनाथस्य मधुविश्वानन्दचकितेऽह्नि चैत्रशुक्लत्रयोदश्यां श्रीवीरप्रभोः सहपरदशमानादौ सहसः सहपरः पौषस्तस्यदशमानादौ अङ्किते पौषकृष्ण दशम्यां श्रीपार्श्वनाथस्य जनन्यामातुः हर्षात्प्रमोदात् उत्सवे महोद्धवे जायमाने क्रियमाणे सति रजनि विरामे निशावसाने जनिरु. त्पत्तिर्जन्मेत्यर्थः अजनि अभूत् ॥ १८ ॥ अत्र श्लोके मालिनीच्छन्दः ननमयययुतेयं मालिनी भोगिलोकैरितितल्लक्षणात् || यो लक्ष्मणासंगत एव देवो, गवाऽद्भुतविड् हरिणात्मनाऽयम् । सुरर्षभाऽर्यक्रमवारिजेन, रराज राजकज पूज्यमूर्त्तिः ॥ १९ ॥ १०३ अन्वयः - - राजनजपूज्यमूर्त्तिः अद्भुतत्विद् हरिणात्मना (उपलक्षितः ) यः देव: गवालक्ष्मणा संगत एवं अथम् सुरर्षभार्च्य क्रमवारिजेन रराज ॥ १८ ॥ व्याख्या - राजव्रजपूज्यमूत्तिः राज्ञां महीपतीनां व्रजेन = समूहेन पूज्या - अर्हणीया मूर्तिः शरीरं स्वरूपं यस्य स तथोक्तः, अद्भुतत्त्रिड्=अद्भुता=लोकातिशायितयाऽऽश्चर्यकारिणी त्विट् - कान्तियस्य स तादृशः हरिणात्मना = हरिणस्य = विष्णोरिव शिवस्येव वा उदारः आत्मा-स्वभावः बुद्धिर्वा तेन यद्वा हरिण = स्वर्णन स्वर्णसच्छायेनेत्यर्थः अथवा हरिणा = पीतेन हरिद्रा भच्छ विच्छुरितेनेत्यर्थः आत्मना = देहेन । उपलक्षितः यः देवः = दीप्तिमान् घात्यन्तरायादिकर्मविजिगीषुर्वा श्रीमान् ऋषभदेवः गवा-वृषभेण तदाकृति
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy