________________
१०२
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाम्ये
केनेत्यर्थः लक्ष्मणा लाञ्छनेन संगता=युक्तः अयम् =असौ मुरर्षभा
र्यक्रमवारिजेन-सुरर्षभैः शकेन्द्रादिभिः अथैन-पूजनी येन क्रमवारिजेन-चरणारविन्दद्वन्द्वन रराज-शुशुभे । गोष्ठा -ऽध्व-निवहा बजाः इति. मूर्तिः काठिन्य-काययोरितिचामरः ।
शान्तिनाथपक्षे-गवाद्भुतत्विड्-गो मूर्यस्येव अद्भुता त्विट् यस्य सः, राजबजपूज्यमूत्ति वर्णितार्थः यः देवः शान्तिना. थस्वामी हरिणात्मना-मृगरूपेण लक्ष्मणा=चिह्वेन संगतः अयं सुरर्षभार्यक्रमवारिजेन रराज । गौः स्वर्ग च बलीवर्दे रश्मौ च कुलिशे पुमान् ! स्त्री सौरभेयीदृग्वाणदिग्वाग्भूष्वप्मभूम्नि चेतिमेदिनी । कलङ्का-ऽङ्को लाञ्छनं च चिह्न लक्ष्म च लक्षणमित्यमरः ।
नेमिनाथपक्षे-गवाद्भुतत्विड्गवोः नेत्रयोः अद्भुताविट्-शोभायस्य सः यद्वा गोषु-इन्द्रियेषु विषये अद्भुताऽसाधा. रणतया विस्मयजननी विड्-व्यवसायः निग्रहोद्यमो जिगीषा वा यस्य स तथोक्तः । हरिणा हरित्कान्तिशालिना अञ्जनामेने त्यर्थः आत्मना शरीरेण उपलक्षितः राजबजपूज्यमूर्तिः यः देवः श्रीनेमिनाथप्रभुः सुरर्षभार्यक्रमवारिजेन=सुरर्षभैः शक्रेन्द्रादिभिरर्ययोः ऋमयोः चरणयोः वारिजेन-शङ्खन तदाकृतिकन लक्ष्मणा संगतः रराज । गौरुद के दृशि स्वर्गे दिशि पशौ रश्मौ बजे भूमाविषौगिरि रित्यनेकार्थसंग्रहः त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि इति हैमः । हरिर्दिवाकरसमीरयोः यमवासवसिंहांशुशशांककपिवाजिषुपिंगवणे हरिद्ववर्णेभेकोपेन्द्रशुकाहिषु इत्यनेकार्थ संग्रहः । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च इत्यमरः । - पार्श्वनाथपक्षे-गवाद्भुतस्विट-गविबाचि देशनावचने अद्भुता-सुरनरविस्मयजनिका त्विट्-छटा यस्य सः तीर्थकृतां वच