________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. नातिशयशालित्वात् । हरिणा-हरिद्वर्णेन इन्द्रनीलमणिमेचकच्छवि नेत्यर्थः आत्मना=देहेन उपलक्षितः राजबजपूज्यमूर्तिः यः देवः हरिणा सर्पेण तदाकारेण लक्ष्मणालाञ्छनेन संगतः अयं सुरर्षभार्यक्रमवारिजेन-इन्द्रार्चनीयचरणकमलेन रराज । __ महावीरस्वामीपक्षे-गवाद्भुतत्विट्गविभूमौ देशनाकालिकस्वाश्रय क्षेत्रे इत्यर्थः अद्भुता=विस्मयावहा विद्=प्रभा 'भामण्डल' रूपा यस्य सः । आत्मना धृत्या सच्चित्तेन वा सद्बुध्द्या वा उपलक्षितः राजव्रजपूज्यमृतिः यः देवः श्रीवर्धमानस्वामी हरिणासिंहेन तदाकारकेण लक्ष्मणा संगतः अयं सुरर्षभाच्यै क्रमवारिजेन रराज । आत्मा चित्ते धृतो यत्ने धिषणायां कलेवरे । परमात्मनि जीवेर्के हुताशनसमीरयोत्यनेकार्थसंग्रहः ।।।
रामपले-गवाद्भुतत्विट्-गवि बाणेऽद्भुता वीरविस्मयकरी विट्-दीप्तिर्यस्य सः गविभूमौ अदभुता विट्-जिगीषा यस्य सः राजब्रजपूज्यमूर्तिः यः देवः श्रीरामचन्द्रबलदेवः हरिणा-कपिना= हनूमता तथा लक्ष्मणासंगतः-लक्ष्मणेन-सौमित्रिणा आ-सर्वतोभावेन संगतः मिलितः अयं सुर्रषभार्यक्रमवारिजेनदेवेन्द्रसमभ्यर्च्य चरणकमलशालिना आत्मना शरीरेण रराज ।
कृष्णपक्षे- गवाद्भुतत्विट्-गवि-पृथिव्यां गोषुधेनुषु वा विषये अद्भुता-सर्वाश्चर्यकारी विट्-व्यवसायो रक्षणात्मको यस्य सः गयोः दृशः अद्भुता त्विट्-सर्वमोहिनी शोभा यस्य स इति वा राजवजपूज्यमूर्तिः, सुरर्षभार्यक्रमवारिजेन शक्रसंपूज्यपदाम्बुजशोभिना आत्मना-शरीरेण उपलक्षितः. यः देवः श्रीकृष्णचन्द्रनामा वासुदेवः अयं हरिणा-गरुडेन लक्ष्मणा लाञ्छनेन ध्वजेन संगतः= वहनीयतया सम्बद्धः रराज-दिदीपे ।।