________________
६७
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. शीत्याह-वामाऽभिरामाङ्गीवामेनकामदेवेन तद्विकारोदयेन कामनिवासावस्योद्गमेन वेतिभावः यौवनोभेदेनेतियावत् अभिराममनो. हरम् अङ्ग यस्याः सा तथोक्ता यता वामस्यकामस्य अभिरामा मुन्दरी यद्वा आमिरामा आभाऽस्त्यस्या इत्याभिनी-सातिशयशोभाशालिनी रामा-रमणी रतिरित्यथेस्तद्वदङ्गं यस्याः सा तथोक्ता । अन्ता रम्या पत्युमनोहारिणी । वामं धने पुंसिहरे कामदेवे पयोथरे । वल्गु-प्रतीप-सव्येषु त्रिषु नार्या स्त्रियामिति मेदिनी । मृत्या ववसितेरम्ये समाप्ता वन्त इष्यते इति शब्दार्णवः शेषविशेषणयोजनं पूर्ववत् । श्लेषः दीपकम् उपमाऽलङ्काराः ।
श्रीसिद्धार्थराजस्य भार्यानामधेयमग्रेऽभिधास्यते ॥ ६१ ॥ इन्दोररालापि कला द्वितीया,
शुभायनूनं समयाऽनुसारात् । तथा सुदेव्यप्यचिराशिवैव,
वामाध्वना सूरतमूर्तिसाधुः ॥६२|| (अन्वयः) इन्दोः द्वितीया कला भरालाऽपि समयानुसारात् नूनं शुभाय (भवति) तथा सुदेव्यपि अचिराशिवा वामाध्वना (वर्तनशीला) सूरतमूर्तिसाधुः (अभूत् ) ॥ ६२ ॥
__ यथा इन्दो-चन्द्रमसः द्वितीया कला-पोडशभागैकभागः कलातु पोडशोभाग इत्यमरः, अराला कुटिलाऽपि असुदृश्याऽपीतिभावः समयाऽनुसारात्-कालान्तरेण पौर्णमासीमासाद्येत्यर्थः नूनं= निश्चयेन शुभाय-मङ्गलाय पूर्णशशिरूपाय कल्याणायेत्यर्थः भवति तथा तद्वत् सुदेवी-प्राग्वर्णितरूपा राज्ञी अपि अचिराऽशिवा अचि. रम्-अल्पकालपर्यन्तमेव अशिवं-पुत्रादिराहित्यादिरूपममङ्गलं तज्ज. नितदुःखमितिभावः यस्याः सा तथोक्ता अभूत् । कीदृशी सेत्याह
टि... सम्यग्दष्टुमशक्यापि,