________________
६६ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाव्ये शील-सद्वृत्तं सत्स्वभावो वा लीला-विलासविशेषः गतिचेष्टिता दिभिःप्रियस्यानुकरणं 'प्रियस्यानुकृतिौला' इति साहित्यदर्पणे ताभ्यां (शील लीलाभ्यां ) सहवर्तमाना इति सा तथोक्ता कौशल्यकान्ता-कौशलमेव कौशल्यं-क्रियानैपुण्यम् तेन कान्ता-कमनीया प्रशंसनीयेत्यर्थः । अम्बुजलोचनश्रीः-अम्बुजस्येव लोचनस्य श्री यस्याः सा तथोक्ता कमलसदृश नेत्रशोभाशालिनीत्यर्थः। शीलस्वभावे सद्वृत्ते इति मेदिनी ॥
द्वितीयपक्षे-अस्य राज्ञः 'विश्वसेन' नामधेयस्य 'अचिरा' तदभिधाना स्त्री-भार्या पट्टराज्ञीतियावत् आसीत सा कीदृशीत्याह-वामारम्या मनोहारिणीत्यर्थः, अर्थसिद्धौ-प्रयोजनसम्पादनविषये आख्य. या-नाना शिवा-क्षेमकारिणी। शेष पूर्ववत्॥ अर्थोऽभिधेय रै-वस्तुप्रयोजन-नित्तिषु इत्यमरः।।
तृतीयपक्षे-अस्य राज्ञः 'समुद्र विजय' नाम्नः आख्यया नाना 'शिवा' इतिलोके प्रसिद्धा स्त्री-पट्टमहिपी आसीत् । शेषं पूर्ववत् ॥
चतुर्थपक्षे-अस्य राज्ञः 'नाभिराज' संज्ञकस्य स्त्री-पत्नी पट्टराज्ञी मुदेवी-मरुदेवी इति प्रसिद्धा आसीत् नामैकदेशग्रहणेन नामग्रहणात् सत्या भामा इतिवत् । सा कीदृशीत्याह-श्रिया 'युक्ता' इति शेषः । शेषं पूर्ववत् ।।
पञ्चमपक्षे-अस्य चमुदेवस्य 'सुदेवी-देवकी इत्यभिधया लोके विदिता स्त्री-भार्या आसीत् शेषं पूर्ववत् । ___षष्ठपक्षेच--अस्य राज्ञो 'दशरथ' नामधेयस्य 'कौशल्यका 'कौशल्या' इत्येतनाम्नीत्यर्थः स्वार्थिकः कः "केऽण" इत्यापोह्रस्वः अभाषितपुंस्काचेत्यनेन नित्यस्त्रीलिङ्गशब्दाद्विहिताऽऽतस्थानिकाऽतो. वैकल्पिकत्व विधानसामर्थ्याचदभावे नित्येत्वस्याऽप्यभावः । साकी