________________
आचार्य श्री विजया मृतसूरिप्रणीता सरणी टीका.
I
तिभावः । श्लेषेणानुप्राणितंरूपकमुपैमा वा काव्यलिङ्गं समासोक्तिर्वाऽलङ्काराः । बलि - हस्तां - शवः करा इत्यमरः ॥ ६० ॥ वामाऽभिरामाङ्गयचिराऽर्थसिद्धौ, शिवाऽऽख्ययाऽस्य प्रियकारिणीस्त्री ।
श्रिया सुदेवी सहशीललीला
६५
कौशल्य कान्ताम्बुजलोचनश्रीः ॥ ६१ ॥
( अन्वयः ) अस्य वामा स्त्री अभिरामाङ्गी, अर्थसिद्धौ अचिरा, आख्ययाशिवा, प्रियकारिणी, श्रियासुदेवी सहशीललीला, कौशल्यकान्ता, अम्बुज लोचनश्रीः ( आसीत् ) ॥ द्वितीये अस्य अचिरास्त्री, वामा, ऽभिरामाङ्गी, अर्थ - सिद्धौ आख्या शिवा, शेषं पूर्ववत् ॥ तृतीये अस्य आख्यया शिवा स्त्री शे० पू० ॥ चतुर्थे - अस्य सुदेबी = मरुदेवी स्त्री दो० पू० ॥ पञ्चमे - अस्य सुदेवी = देवकी स्त्री श्रिया 'युक्ता' शेषं पूर्ववत् ॥ षष्ठे अस्य कौशल्यका कौशल्या स्त्री माभिरामाङ्गी अर्थसिद्धी अचिरा. आख्यया शिवा. प्रियकारिणी, श्रिया सुदेवी, सहशीललीला, अन्ता, ऽम्बुजलोचनश्रीः ( आसीत् ) || ६१ ॥
व्याख्या:- अस्य राज्ञः अश्वसेन संज्ञस्य वामा-तदभिधाना स्त्री = भार्या आसीत् कीदृशीत्याह - अर्थसिद्धौ अचिरा = कार्य सम्पादने शैन्ध्यवती शीघ्रंकार्यसाधिकेत्यर्थः । आख्यया - नाम्ना शिवा=कल्याणावा नाम [मरण] मात्रेणैव मङ्गलकारिणीत्यर्थः । अभिरामाङ्गी = अभिरामं = सुन्दरम् अङ्गं शरीरं यस्याः सा तथोक्ता मनोहरगात्रीत्यर्थः । प्रियकारिणी - पत्युर्हितकारिणी । श्रिया - शोभया सौभाग्यलक्ष्म्या वा रूपसम्पदा वा सुदेवी = उत्तमा देवीव इति देवी. सहशीललीला =
G
दि० 1 समर्थेत्यादिपदे कर स्वयम्भूपदयोश्च श्लेषात् । २- प्रियेवेतिपाठे | ३- तुष्ट मनस्त्वे पञ्चम्यन्तानां हेतुत्वेनोपादानात् । ४- समान विशेषणबलान्नायकनायिकाव्यवहारारोपात् तदुक्तं 'समासोक्तिः समैर्य कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः' इति साहित्यदर्पणे ॥