________________
६४
महोपाध्यायश्रीमेघविजयगणिविरचितेसससन्धानमहाकाव्ये
.......
.
....
.........
(व्याख्या)-यथार्थपृथ्वीपतित्वं प्रकटयति-तमीति । तमीश्वरामतमी-रात्रिस्तस्या ईश्वरः पतिः तमीश्वरः चन्द्रस्तस्येव आभा= छविर्यस्य स तं तथोक्तं चन्द्रसदृशमित्यर्थः तं--पूर्वोक्तम् विश्वसेन प्रभृतिम् ईश्वरं पति राजानमित्यर्थः आप्य लब्ध्वा धरा-पृथ्वी समर्थ सिद्धार्थ कृतार्थभावात् द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इति न्यायादिहत्य भाव शब्दस्य प्रत्येकमन्वयः तथा च समर्थभावात् कार्यसम्पादने समर्थत्वात्-शक्तिशालिजनाढ्यत्वादितिभावः यद्वा सर्वविधवस्तुप्रकटने क्षमत्वात् सिद्धार्थभावात्-लोकानां सर्वार्थसाधकत्वात्, कृतार्थभावात्-धान्यादिनिष्पादनेन चरितार्थत्वात्-सफलत्वात् इत्यर्थो बोद्धव्यः । कराग्रहात्=करस्य-राजग्राह्यभागस्य अग्रहाव=अनादानात् ग्रहणाभावादित्यर्थः, तथा स्वयम्भूदयनात् स्वयम्भू-विष्णुः तद्वद् दयनात्-रक्षणात् यद्वा खयम्आत्मना नतु कमेकरादिद्वारा भुवः स्थानस्य आगन्तुकेभ्यः दयनातदानात् सत्कृत्यप्रतिपादनात्, अथवा स्वयं नत्वन्यद्वारैव भुवः पृथिव्याः दयनात् पालनात् प्रत्यवेक्षणादित्यर्थः, अतएव तुष्टमनाःप्रसन्नचित्ताः प्रियवधीत्यावहव हृद्यैवेत्यर्थः लोकानां नरपतेश्च, यद्वा प्रिया भार्या तद्रूपेत्यर्थः एव. प्रियेवेति पाठे प्रियेव भार्येव आसीत् । वनिताऽपि यथा शशाङ्ककान्तं कान्तमासाद्य समर्थ सिद्धार्थ-कृतार्थमा वात-समर्थ-भावात्-सुरतादिक्षमत्वात् सिद्धार्थभावात् सम्पन्नमनोरथत्वात् कृतार्थभावात् सदपत्यजननादिनाकृतकृत्यत्वात, कराग्रहातयोग्यपुरुषकर्तृकपाणिग्रहणात् स्वयम्भूदयानात स्वयम्भुव: कामदेवस्य तद्विकारस्येतिभावः उदयनात्-आविर्भावात् यद्वा खयम्भुवो = स्तनयोः उदयनात्-उत्थानात् यौवनोद्भेदादित्यर्थः तुष्टमनाः सदाऽऽहादितान्तःकरणा पत्युः प्रिया-प्रीतिजनिका भवति. तथेयंधरापी