________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, त्यर्थः उपमानकक्षायामित्याशयः सविता-प्रजोत्पादयिता अजाब्रह्मा एव यहा सविता-सूर्यः तेजस्वित्वेन अजः-विष्णुः स्थिति (लोकमर्यादा) कारित्वेन, शिवश्व दुष्टसंहारकत्वेन एव नान्यः कश्चन यस्यो. पमानभूत इति भावः तस्य राज्ञः आधिपत्येन्प्रभुत्वे स्वामित्वे इत्यर्थः राजत्वकाल इति यावत् जगत्यां पृथिव्यां लोकेवा सुषमा-शिष्टाऽनुग्रहदुष्टनिग्रहादिविधिविधानजनित सार्वात्रिकशान्तिसमुद्भूतपरमशोभा 'सुषमा परमाशोभा' इत्यमरः । यद्वा सुषमा शोभना स्थितिरितिशेषः, अथवा सुपमा ममा तुल्यरूपा वृति रितिशेषः आसीदितिक्रियाध्या हारः, अत एव कस्यापि लोकस्य जनस्य दुःखलेशः आध्यात्मिकाऽऽधिदैविका-ऽऽधिभौतिकादिदुःखमात्राऽपि न अभूत् । अन्योन्ययुधायुधानाम् अन्योन्यं परस्परं युत-युद्धम् आयुधानि-प्रहरणानि शखाणीत्यर्थः तेषां तजनित इत्यर्थः क्लेशा-पीडा कुतः? नैव सम्भवतीत्यर्थः न्यायपरायणे प्रजारक्षणप्रवणान्तःकरणे धरणीरमणे राजसिंहा. सनमासीने प्रजानामकुतोभयत्वं राष्ट्रस्य च समस्तेति भीतिराहित्यमनुपमसुषमासाहित्यं च सर्वथैव सम्भावनाऽऽस्पदीभावमधिगच्छ. तीति नीतिवेदिनाम्मतिः । उपमा, काव्यलिङ्गम् अर्थापत्तिश्वाऽलङ्क. तयः॥अजश्छागे हरि-ब्रह्मविधु-स्मर-नृपे हरे इति मेदिनी ।।५९।। तमीश्वरं प्राप्य तमीश्वराभं
समर्थ सिद्धार्थ कुतार्थभावात् । कराग्रहात् तुष्टमनाधराऽऽसीत्
स्ययंखयम्भूदयनाप्रियैव ॥ ६० ॥ (अन्वयः) तमीश्वराभं तम् ईशरं प्राप्य धरा समर्थ सिद्धार्थ कृतार्थभावात् कराग्रहात् स्वयम्भूदयनात् तुष्ट मनाः प्रियेव (प्रियेव) आसीत् ॥